युधिष्ठिर उवाच 001
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् 001a
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ 001c
व्यास उवाच 002
आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः 002a
तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः 002c
प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः 003a
क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः 003c
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् 004a
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः 004c
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् 005a
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत 005c
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च 006a
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः 006c
दानधर्मरताः सन्तः सततं प्रियवादिनः 007a
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् 007c
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् 008a
नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः 008c
तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् 009a
अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा 009c
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा 010a
नियतो वर्तयामास प्रजाहितचिकीर्षया 010c
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः 011a
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् 011c
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् 012a
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् 012c
स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः 013a
आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च 013c
न चैनं परिहर्तुं तेऽशक्नुवन्परिसङ्क्षये 014a
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर 014c
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः 015a
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् 015c
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् 016a
एतस्मात्कारणाद्राजन्विश्रुतः स करन्धमः 016c
तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत् 017a
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः 017c
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा 018a
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च 018c
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् 019a
यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः 019c
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः 020a
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः 020c
कर्मणा मनसा वाचा दमेन प्रशमेन च 021a
मनांस्याराधयामास प्रजानां स महीपतिः 021c
य ईजे हयमेधानां शतेन विधिवत्प्रभुः 022a
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः 022c
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया 023a
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः 023c
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः 024a
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत 024c
कारयामास शुभ्राणि भाजनानि सहस्रशः 024e
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे 025a
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः 025c
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च 026a
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते 026c
तस्यैव च समीपे स यज्ञवाटो बभूव ह 027a
ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः 027c
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः 027e