व्यास उवाच 001
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः 001a
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः 001c
ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः 002a
करोति पुरुषः कर्म तत्र का परिदेवना 002c
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः 003a
शृणु तत्र यथा पापमपकृष्येत भारत 003c
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर 004a
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते 004c
यज्ञेन तपसा चैव दानेन च नराधिप 005a
पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः 005c
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् 006a
प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् 006c
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः 007a
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् 007c
राजसूयाश्वमेधौ च सर्वमेधं च भारत 008a
नरमेधं च नृपते त्वमाहर युधिष्ठिर 008c
यजस्व वाजिमेधेन विधिवद्दक्षिणावता 009a
बहुकामान्नवित्तेन रामो दाशरथिर्यथा 009c
यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः 010a
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः 010c
युधिष्ठिर उवाच 011
असंशयं वाजिमेधः पावयेत्पृथिवीमपि 011a
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि 011c
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम 012a
दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे 012c
न च बालानिमान्दीनानुत्सहे वसु याचितुम् 013a
तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् 013c
स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम 014a
करमाहारयिष्यामि कथं शोकपरायणान् 014c
दुर्योधनापराधेन वसुधा वसुधाधिपाः 015a
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम 015c
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् 016a
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः 016c
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः 017a
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः 017c
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन 018a
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि 018c
वैशम्पायन उवाच 019
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा 019a
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् 019c
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् 020a
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः 020c
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति 020e
युधिष्ठिर उवाच 021
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् 021a
कस्मिंश्च काले स नृपो बभूव वदतां वर 021c
व्यास उवाच 022
यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम् 022a
यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः 022c