वैशम्पायन उवाच 001
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता 001a
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः 001c
अतीव मनसा शोकः क्रियमाणो जनाधिप 002a
सन्तापयति वैतस्य पूर्वप्रेतान्पितामहान् 002c
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः 003a
देवांस्तर्पय सोमेन स्वधया च पितॄनपि 003c
त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते 004a
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् 004c
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् 005a
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा 005c
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् 006a
पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह 006c
युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम् 007a
न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः 007c
त्यज शोकं महाराज भवितव्यं हि तत्तथा 008a
न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः 008c
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् 009a
विरराम महातेजास्तमुवाच युधिष्ठिरः 009c
गोविन्द मयि या प्रीतिस्तव सा विदिता मम 010a
सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे 010c
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर 011a
श्रीमन्प्रीतेन मनसा सर्वं यावदनन्दन 011c
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् 012a
न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् 012c
कर्णं च पुरुषव्याघ्रं सङ्ग्रामेष्वपलायिनम् 012e
कर्मणा येन मुच्येयमस्मात्क्रूरादरिन्दम 013a
कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः 013c
तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् 014a
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् 014c
अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे 015a
किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः 015c
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका 016a
यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते 016c
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः 017a
असकृच्चैव सन्देहाश्छिन्नास्ते कामजा मया 017c
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् 018a
मैवं भव न ते युक्तमिदमज्ञानमीदृशम् 018c
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ 019a
युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः 019c
स कथं सर्वधर्मज्ञः सर्वागमविशारदः 020a
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत 020c