वैशम्पायन उवाच 001
कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः 001a
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः 001c
उत्तीर्य च महीपालो बाष्पव्याकुललोचनः 002a
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः 002c
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः 003a
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः 003c
तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः 004a
ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् 004c
तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् 005a
भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् 005c
राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः 006a
वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् 006c
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् 007a
क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया 007c
तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर 008a
न शोचितव्यं पश्यामि त्वया धर्मभृतां वर 008c
शोचितव्यं मया चैव गान्धार्या च विशां पते 009a
पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा 009c
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः 010a
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः 010c
उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः 011a
दुर्योधनापराधेन कुलं ते विनशिष्यति 011c
स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च 012a
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः 012c
कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् 013a
द्यूतसम्पातमप्येषामप्रमत्तो निवारय 013c
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् 014a
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् 014c
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् 015a
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव 015c
समं सर्वेषु भूतेषु वर्तमानं नराधिप 016a
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन 016c
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि 017a
दुर्योधनमहं पापमन्ववर्तं वृथामतिः 017c
अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् 018a
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे 018c
वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप 019a
न शोचितव्यं भवता पश्यामीह जनाधिप 019c