वैशम्पायन उवाच 001
एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा 001a
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिन्दम 001c
धारयामास चात्मानं धारणासु यथाक्रमम् 002a
तस्योर्ध्वमगमन्प्राणाः सन्निरुद्धा महात्मनः 002c
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् 003a
यद्यन्मुञ्चति गात्राणां स शन्तनुसुतस्तदा 003c
तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै 003e
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा 004a
तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः 004c
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप 004e
सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै 005a
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च 005c
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप 006a
निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत 006c
एवं स नृपशार्दूल नृपः शान्तनवस्तदा 007a
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः 007c
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् 008a
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा 008c
युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् 008e
युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः 009a
छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् 009c
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् 010a
चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ 010c
उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा 010e
स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् 011a
तालवृन्तान्युपादाय पर्यवीजन्समन्ततः 011c
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः 012a
याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः 012c
ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि 013a
कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा 013c
समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् 014a
अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः 014c
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः 015a
जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः 015c
अनुगम्यमाना व्यासेन नारदेनासितेन च 016a
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः 016c
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः 017a
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा 017c
ततो भागीरथी देवी तनयस्योदके कृते 018a
उत्थाय सलिलात्तस्माद्रुदती शोकलालसा 018c
परिदेवयती तत्र कौरवानभ्यभाषत 019a
निबोधत यथावृत्तमुच्यमानं मयानघाः 019c
राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च 020a
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः 020c
जामदग्न्येन रामेण पुरा यो न पराजितः 021a
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना 021c
अश्मसारमयं नूनं हृदयं मम पार्थिवाः 022a
अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै 022c
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे 023a
विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह 023c
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन 024a
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः 024c
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना 025a
पीडितो नातियत्नेन निहतः स शिखण्डिना 025c
एवंविधं बहु तदा विलपन्तीं महानदीम् 026a
आश्वासयामास तदा साम्ना दामोदरो विभुः 026c
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने 027a
गतः स परमां सिद्धिं तव पुत्रो न संशयः 027c
वसुरेष महातेजाः शापदोषेण शोभने 028a
मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि 028c
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे 029a
धनञ्जयेन निहतो नैष नुन्नः शिखण्डिना 029c
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे 030a
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः 030c
स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने 031a
न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः 031c
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् 032a
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव 032c
इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा 033a
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह 033c
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः 034a
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपा 034c