वैशम्पायन उवाच 001
ततः कुन्तीसुतो राजा पौरजानपदं जनम् 001a
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति 001c
सान्त्वयामास नारीश्च हतवीरा हतेश्वराः 002a
विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः 002c
सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः 003a
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा 003c
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः 004a
प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः 004c
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे 005a
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः 005c
स निर्ययौ गजपुराद्याजकैः परिवारितः 006a
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् 006c
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः 007a
चन्दनागरुमुख्यानि तथा कालागरूणि च 007c
प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै 008a
माल्यानि च महार्हाणि रत्नानि विविधानि च 008c
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् 009a
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः 009c
जनार्दनेनानुगतो विदुरेण च धीमता 010a
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो 010c
महता राजभोग्येन परिबर्हेण संवृतः 011a
स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् 011c
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा 012a
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपम् 012c
उपास्यमानं व्यासेन पाराशर्येण धीमता 013a
नारदेन च राजर्षे देवलेनासितेन च 013c
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः 014a
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः 014c
शयानं वीरशयने ददर्श नृपतिस्ततः 015a
ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् 015c
अभिवाद्याथ कौन्तेयः पितामहमरिन्दमम् 016a
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः 016c
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः 017a
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् 017c
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः 018a
भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् 018c
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत 019a
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते 019c
प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो 020a
आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे 020c
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः 021a
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् 021c
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः 022a
तान्पश्य कुरुशार्दूल समुन्मीलय लोचने 022c
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया 023a
यथोक्तं भवता काले सर्वमेव च तत्कृतम् 023c
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता 024a
ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य तम् 024c
ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् 025a
ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् 025c
दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर 026a
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः 026c
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः 027a
शरेषु निशिताग्रेषु यथा वर्षशतं तथा 027c
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर 028a
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति 028c
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् 029a
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् 029c
राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः 030a
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः 030c
वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर 031a
वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे 031c
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा 032a
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि 032c
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः 033a
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् 033c
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव 034a
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् 034c
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः 035a
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि 035c
वैशम्पायन उवाच 036
एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् 036a
वासुदेवं महाबाहुमभ्यभाषत कौरवः 036c
भगवन्देवदेवेश सुरासुरनमस्कृत 037a
त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर 037c
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम 038a
रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् 038c
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा 039a
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः 039c
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 040a
सन्धानस्य परः कालस्तवेति च पुनः पुनः 040c
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः 041a
घातयित्वेह पृथिवीं ततः स निधनं गतः 041c
त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् 042a
नरेण सहितं देवं बदर्यां सुचिरोषितम् 042c
तथा मे नारदः प्राह व्यासश्च सुमहातपाः 043a
नरनारायणावेतौ सम्भूतौ मनुजेष्विति 043c
वासुदेव उवाच 044
अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव 044a
न तेऽस्ति वृजिनं किञ्चिन्मया दृष्टं महाद्युते 044c
पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः 045a
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः 045c
वैशम्पायन उवाच 046
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् 046a
धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा 046c
प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ 047a
सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् 047c
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः 048a
ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत 048c
इत्युक्त्वा सुहृदः सर्वान्सम्परिष्वज्य चैव ह 049a
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः 049c
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः 050a
आचार्या ऋत्विजश्चैव पूजनीया नराधिप 050c