वैशम्पायन उवाच 001
तूष्णीम्भूते तदा भीष्मे पटे चित्रमिवार्पितम् 001a
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः 001c
नृपं शयानं गाङ्गेयमिदमाह वचस्तदा 001e
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः 002a
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः 002c
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता 003a
तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि 003c
एवमुक्तो भगवता व्यासेन पृथिवीपतिः 004a
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः 004c
उवाच चैनं मधुरं ततः शान्तनवो नृपः 005a
प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः 005c
यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः 006a
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः 006c
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय 007a
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः 007c
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय 008a
सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः 008c
अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा 009a
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः 009c
आगन्तव्यं च भवता समये मम पार्थिव 010a
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे 010c
तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम् 011a
प्रययौ सपरीवारो नगरं नागसाह्वयम् 011c
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् 012a
सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च 012c
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः 013a
प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् 013c