युधिष्ठिर उवाच 001
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते 001a
विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् 001c
भीष्म उवाच 002
अयं दैवतवंशो वै ऋषिवंशसमन्वितः 002a
द्विसन्ध्यं पठितः पुत्र कल्मषापहरः परः 002c
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः 003a
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः 003c
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती 004a
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः 004c
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा 005a
विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ 005c
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह 006a
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः 006c
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः 007a
षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः 007c
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा 008a
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः 008c
तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः 009a
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः 009c
उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा 010a
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा 010c
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च 011a
धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः 011c
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा 012a
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः 012c
नक्षत्राण्यृतवश्चैव मासाः सन्ध्याः सवत्सराः 013a
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा 013c
शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती 014a
सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च 014c
गङ्गा महानदी चैव कपिला नर्मदा तथा 015a
कम्पुना च विशल्या च करतोयाम्बुवाहिनी 015c
सरयूर्गण्डकी चैव लोहित्यश्च महानदः 016a
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा 016c
गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा 017a
दृषद्वती च कावेरी वङ्क्षुर्मन्दाकिनी तथा 017c
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च 018a
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः 018c
पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् 019a
सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च 019c
हिरण्वती वितस्ता च तथैवेक्षुमती नदी 020a
वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि 020c
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च 021a
ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा 021c
कौशिकी यमुना सीता तथा चर्मण्वती नदी 022a
नदी भीमरथी चैव बाहुदा च महानदी 022c
महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती 022e
नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् 023a
गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् 023c
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् 024a
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् 024c
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः 025a
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः 025c
मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः 026a
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा 026c
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः 027a
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः 027c
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः 027e
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा 028a
पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया 028c
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः 029a
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् 029c
सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः 029e
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् 030a
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् 030c
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा 031a
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः 031c
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः 031e
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा 032a
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् 032c
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् 033a
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ 033c
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् 034a
उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् 034c
ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा 035a
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 035c
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः 035e
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् 036a
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् 036c
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च 037a
ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा 037c
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा 038a
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च 038c
लोमशो नाचिकेतश्च लोमहर्षण एव च 039a
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा 039c
एष वै समवायस्ते ऋषिदेवसमन्वितः 040a
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः 040c
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् 041a
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् 041c
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा 042a
दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः 042c
यवनो जनकश्चैव तथा दृढरथो नृपः 043a
रघुर्नरवरश्चैव तथा दशरथो नृपः 043c
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः 044a
हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता 044c
महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः 045a
करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः 045c
दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः 046a
मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियङ्करः 046c
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः 047a
महाभिषश्च विख्यातो निमिराजस्तथाष्टकः 047c
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः 048a
शिबिरौशीनरश्चैव गयश्चैव नराधिपः 048c
प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः 049a
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः 049c
हविध्रश्च पृषध्रश्च प्रतीपः शन्तनुस्तथा 050a
कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः 050c
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः 051a
ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः 051c