भीष्म उवाच 001
कार्यते यच्च क्रियते सच्चासच्च कृतं ततः 001a
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् 001c
काल एवात्र कालेन निग्रहानुग्रहौ ददत् 002a
बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते 002c
यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी 003a
तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् 003c
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् 004a
कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् 004c
यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान् 005a
एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः 005c
न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन 006a
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् 006c
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् 007a
अधर्मः सततो धर्मं कालेन परिरक्षितम् 007c
कार्यावेतौ हि कालेन धर्मो हि विजयावहः 008a
त्रयाणामपि लोकानामालोककरणो भवेत् 008c
तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् 009a
उह्यमानः स धर्मेण धर्मे बहुभयच्छले 009c