युधिष्ठिर उवाच 001
नाभागधेयः प्राप्नोति धनं सुबलवानपि 001a
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति 001c
नालाभकाले लभते प्रयत्नेऽपि कृते सति 002a
लाभकालेऽप्रयत्नेन लभते विपुलं धनम् 002c
कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः 002e
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् 003a
नालभ्यं चोपलभ्येत नृणां भरतसत्तम 003c
यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः 004a
मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी 004c
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः 005a
धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः 005c
अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते 006a
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना 006c
विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा 006e
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् 007a
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् 007c
यथा पिपासां जयति पुरुषः प्राप्य वै जलम् 008a
दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः 008c
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि 009a
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति 009c
भीष्म उवाच 010
ईहमानः समारम्भान्यदि नासादयेद्धनम् 010a
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति 010c
दानेन भोगी भवति मेधावी वृद्धसेवया 011a
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः 011c
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि 012a
स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः 012c
यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे 013a
मशकीटपिपीलानां स्थिरो भव युधिष्ठिर 013c