युधिष्ठिर उवाच 001
ये च धर्ममसूयन्ति ये चैनं पर्युपासते 001a
ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः 001c
भीष्म उवाच 002
रजसा तमसा चैव समवस्तीर्णचेतसः 002a
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः 002c
ये तु धर्मं महाराज सततं पर्युपासते 003a
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः 003c
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् 004a
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते 004c
मनुष्या यदि वा देवाः शरीरमुपताप्य वै 005a
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः 005c
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः 006a
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः 006c
युधिष्ठिर उवाच 007
असतां कीदृशं रूपं साधवः किं च कुर्वते 007a
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः 007c
भीष्म उवाच 008
दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः 008a
साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् 008c
राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः 009a
नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः 009c
पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः 010a
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः 010c
चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् 011a
ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् 011c
वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च 012a
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते 012c
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 013a
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः 013c
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् 014a
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः 014c
होमकाले यथा वह्निः कालमेव प्रतीक्षते 015a
ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते 015c
न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् 015e
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः 016a
तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि 016c
यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति 017a
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् 017c
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् 018a
कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् 018c
गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च 019a
गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया 019c
वृद्धान्नातिवदेज्जातु न च सम्प्रेषयेदपि 020a
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते 020c
न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि 021a
मैथुनं सततं गुप्तमाहारं च समाचरेत् 021c
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि 022a
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् 022c
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः 023a
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया 023c
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् 024a
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् 024c
संस्कृतं पायसं नित्यं यवागूं कृसरं हविः 025a
अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् 025c
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् 026a
व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् 026c
न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् 027a
त्वङ्कारो वा वधो वेति विद्वत्सु न विशिष्यते 027c
अवराणां समानानां शिष्याणां च समाचरेत् 027e
पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् 028a
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 028c
ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः 029a
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः 029c
पापेनाभिहतः पापः पापमेवाभिजायते 029e
यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते 030a
धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् 030c
यथा लवणमम्भोभिराप्लुतं प्रविलीयते 031a
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति 031c
तस्मात्पापं न गूहेत गूहमानं विवर्धते 032a
कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत 032c
आशया सञ्चितं द्रव्यं यत्काले नोपभुज्यते 033a
अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः 033c
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः 034a
तस्मात्सर्वाणि भूतानि धर्ममेव समासते 034c
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् 035a
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते 035c
अर्चेद्देवानदम्भेन सेवेतामायया गुरून् 036a
निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् 036c