वैशम्पायन उवाच 001
इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने 001a
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः 001c
निर्णये वा महाबुद्धे सर्वधर्मभृतां वर 002a
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् 002c
भीष्म उवाच 003
नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः 003a
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि 003c
संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः 004a
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् 004c
प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः 005a
नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च 005c
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः 005e
अथ चेन्मन्यसे चैकं कारणं किं भवेदिति 006a
शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च 006c
प्राणयात्रामनेकां च कल्पयानेन भारत 006e
तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् 007a
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् 007c
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते 007e
तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा 008a
अग्राह्यमनिबद्धं च वाचः सम्परिवर्जनम् 008c
युधिष्ठिर उवाच 009
प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः 009a
शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह 009c
भीष्म उवाच 010
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः 010a
संस्था यत्नैरपि कृता कालेन परिभिद्यते 010c
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 011a
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर 011c
अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः 012a
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः 012c
अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः 013a
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च 013c
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ 014a
धर्म इत्येव सम्बुद्धास्तानुपास्स्व च पृच्छ च 014c
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः 015a
आचारः कारणं चैव धर्मश्चैव त्रयं पुनः 015c
युधिष्ठिर उवाच 016
पुनरेवेह मे बुद्धिः संशये परिमुह्यते 016a
अपारे मार्गमाणस्य परं तीरमपश्यतः 016c
वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि 017a
पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् 017c
भीष्म उवाच 018
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः 018a
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा 018c
एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् 019a
पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा 019c
उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर 020a
जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् 020c
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः 021a
अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर 021c
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् 022a
अजातशत्रो सेवस्व धर्म एष सनातनः 022c
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता 023a
तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः 023c
प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः 024a
न स प्रमाणतामर्हो विवादजननो हि सः 024c
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च 025a
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् 025c