वासुदेव उवाच 001
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः 001a
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे 001c
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् 002a
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा 002c
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः 003a
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः 003c
उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः 004a
शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः 004c
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ 005a
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा 005c
यास्य घोरतमा मूर्तिर्जगत्संहरते तया 006a
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः 006c
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् 007a
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते 007c
देवानां सुमहान्यच्च यच्चास्य विषयो महान् 008a
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः 008c
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः 009a
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः 009c
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् 010a
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः 010c
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा 011a
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः 011c
धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते 012a
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः 012c
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा 013a
चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् 013c
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः 014a
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः 014c
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् 015a
महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः 015c
विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः 016a
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते 016c
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा 017a
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् 017c
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः 018a
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः 018c
एष एव श्मशानेषु देवो वसति नित्यशः 019a
यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् 019c
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह 020a
स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् 020c
तस्य घोराणि रूपाणि दीप्तानि च बहूनि च 021a
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः 021c
नामधेयानि वेदेषु बहून्यस्य यथार्थतः 022a
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा 022c
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् 023a
व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः 023c
प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् 024a
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे 024c
प्रथमो ह्येष देवानां मुखादग्निरजायत 025a
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि 025c
स मोचयति पुण्यात्मा शरण्यः शरणागतान् 026a
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् 026c
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः 027a
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते 027c
स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे 028a
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते 028c
महेश्वरश्च लोकानां महतामीश्वरश्च सः 029a
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् 029c
तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् 029e