युधिष्ठिर उवाच 001
दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन 001a
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि 001c
महाभाग्यं च यत्तस्य नामानि च महात्मनः 002a
तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर 002c
वासुदेव उवाच 003
हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने 003a
यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः 003c
प्रयतः प्रातरुत्थाय यदधीये विशां पते 004a
प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु 004c
प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः 005a
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः 005c
नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते 006a
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः 006c
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः 007a
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते 007c
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः 008a
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 008c
घोरं च निनदं तस्य पर्जन्यनिनदोपमम् 009a
श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे 009c
यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् 010a
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः 010c
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः 010e
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ 011a
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा 011c
धनुषा बाणमुत्सृज्य सघोषं विननाद च 011e
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः 012a
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 012c
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः 013a
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः 013c
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा 014a
व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः 014c
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे 015a
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत 015c
भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च 016a
ऋषयः सर्वभूतानामात्मनश्च हितैषिणः 016c
ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः 017a
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् 017c
पूषाणं चाभिदुद्राव परेण वपुषान्वितः 018a
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् 018c
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् 019a
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम् 019c
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः 020a
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः 020c
जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः 021a
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः 021c
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् 022a
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे 022c
तेन चैवातिकोपेन स यज्ञः सन्धितोऽभवत् 023a
यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते 023c
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि 024a
आयसं राजतं चैव सौवर्णमपरं तथा 024c
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि 025a
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः 025c
तत ऊचुर्महात्मानो देवाः सर्वे समागताः 026a
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु 026c
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद 026e
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् 027a
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् 027c
वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् 027e
देवान्रथवरं कृत्वा विनियुज्य च सर्वशः 028a
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः 028c
शरेणादित्यवर्णेन कालाग्निसमतेजसा 029a
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत 029c
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः 030a
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा 030c
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः 031a
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् 031c
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् 032a
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे 032c
ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् 033a
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् 033c
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः 034a
बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा 034c
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् 035a
द्वारवत्यां मम गृहे चिरं कालमुपावसत् 035c
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि 036a
तानुदारतया चाहमक्षमं तस्य दुःसहम् 036c
स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः 037a
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः 037c
स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च 038a
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः 038c
स धाता स विधाता च विश्वकर्मा स सर्ववित् 039a
नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा 039c
विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः 039e
एकधा च द्विधा चैव बहुधा च स एव च 040a
शतधा सहस्रधा चैव तथा शतसहस्रधा 040c
ईदृशः स महादेवो भूयश्च भगवानतः 041a
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि 041c