युधिष्ठिर उवाच 001
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन 001a
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः 001c
वासुदेव उवाच 002
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ 002a
यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम 002c
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः 003a
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन 003c
ईश्वरस्य सतस्तस्य इह चैव परत्र च 003e
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद 004a
एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे 004c
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् 005a
प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः 005c
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे 006a
एते हि सोमराजान ईश्वराः सुखदुःखयोः 006c
अस्मिल्ँलोके रौक्मिणेय तथामुष्मिंश्च पुत्रक 007a
ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा 007c
ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् 008a
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः 008c
तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक 009a
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति 009c
ब्राह्मणो हि महद्भूतमस्मिल्ँलोके परत्र च 010a
भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः 010c
अन्यानपि सृजेयुश्च लोकाल्ँलोकेश्वरांस्तथा 011a
कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः 011c
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः 012a
चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् 012c
दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि 012e
स स्म सञ्चरते लोकान्ये दिव्या ये च मानुषाः 013a
इमा गाथा गायमानश्चत्वरेषु सभासु च 013c
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे 014a
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् 014c
यो मां कश्चिद्वासयेत न स मां कोपयेदिह 014e
तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम् 015a
स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा 016a
एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् 016c
अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति 017a
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा 017c
सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च 018a
कन्याश्चालङ्कृता दग्ध्वा ततो व्यपगतः स्वयम् 018c
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः 019a
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः 019c
सदैव तु मया तस्य चित्तज्ञेन गृहे जनः 020a
सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा 020c
भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः 020e
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् 021a
तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् 021c
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह 021e
अविमृश्यैव च ततः कृतवानस्मि तत्तथा 022a
तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् 022c
स ददर्श तदाभ्याशे मातरं ते शुभाननाम् 023a
तामपि स्मयमानः स पायसेनाभ्यलेपयत् 023c
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् 024a
तमारुह्य रथं चैव निर्ययौ स गृहान्मम 024c
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् 025a
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः 025c
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा 026a
ततः स राजमार्गेण महता निर्ययौ बहिः 026c
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः 027a
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् 027c
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन 028a
को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह 028c
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् 029a
ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः 029c
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि 030a
तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् 030c
ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः 031a
पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः 031c
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् 032a
तथैव पायसादिग्धः प्रसीद भगवन्निति 032c
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह 033a
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज 033c
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत 034a
प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् 034c
प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा 034e
यावदेव मनुष्याणामन्ने भावो भविष्यति 035a
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति 035c
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति 036a
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे 036c
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन 036e
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् 037a
सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन 037c
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन 038a
अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत 038c
न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै 039a
नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा 039c
इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् 039e
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः 040a
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने 040c
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि 041a
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि 041c
षोडशानां सहस्राणां वधूनां केशवस्य ह 042a
वरिष्ठा सहलोक्या च केशवस्य भविष्यसि 042c
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् 043a
प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् 043c
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव 044a
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत 044c
तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् 045a
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो 045c
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक 046a
ततः परमहृष्टात्मा प्राविशं गृहमेव च 046c
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् 047a
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक 047c
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् 048a
अपूजयं च मनसा रौक्मिणेय द्विजं तदा 048c
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ 049a
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा 049c
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो 050a
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा 050c
एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् 051a
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ 051c