युधिष्ठिर उवाच 001
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् 001a
कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप 001c
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत 002a
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे 002c
भीष्म उवाच 003
एष ते केशवः सर्वमाख्यास्यति महामतिः 003a
व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः 003c
बलं श्रोत्रे वाङ्मनश्चक्षुषी च ज्ञानं तथा न विशुद्धं ममाद्य 004a
देहन्यासो नातिचिरान्मतो मे न चातितूर्णं सविताद्य याति 004c
उक्ता धर्मा ये पुराणे महान्तो ब्राह्मणानां क्षत्रियाणां विशां च 005a
पौराणं ये दण्डमुपासते च शेषं कृष्णादुपशिक्षस्व पार्थ 005c
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं योऽयं हि यच्चास्य बलं पुराणम् 006a
अमेयात्मा केशवः कौरवेन्द्र सोऽयं धर्मं वक्ष्यति संशयेषु 006c
कृष्णः पृथ्वीमसृजत्खं दिवं च वराहोऽयं भीमबलः पुराणः 007a
अस्य चाधोऽथान्तरिक्षं दिवं च दिशश्चतस्रः प्रदिशश्चतस्रः 007c
सृष्टिस्तथैवेयमनुप्रसूता स निर्ममे विश्वमिदं पुराणम् 007e
अस्य नाभ्यां पुष्करं सम्प्रसूतं यत्रोत्पन्नः स्वयमेवामितौजाः 008a
येनाच्छिन्नं तत्तमः पार्थ घोरं यत्तत्तिष्ठत्यर्णवं तर्जयानम् 008c
कृते युगे धर्म आसीत्समग्रस्त्रेताकाले ज्ञानमनुप्रपन्नः 009a
बलं त्वासीद्द्वापरे पार्थ कृष्णः कलावधर्मः क्षितिमाजगाम 009c
स पूर्वदेवो निजघान दैत्यान्स पूर्वदेवश्च बभूव सम्राट् 010a
स भूतानां भावनो भूतभव्यः स विश्वस्यास्य जगतश्चापि गोप्ता 010c
यदा धर्मो ग्लायति वै सुराणां तदा कृष्णो जायते मानुषेषु 011a
धर्मे स्थित्वा स तु वै भावितात्मा परांश्च लोकानपरांश्च याति 011c
त्याज्यांस्त्यक्त्वाथासुराणां वधाय कार्याकार्ये कारणं चैव पार्थ 012a
कृतं करिष्यत्क्रियते च देवो मुहुः सोमं विद्धि च शक्रमेतम् 012c
स विश्वकर्मा स च विश्वरूपः स विश्वभृद्विश्वसृग्विश्वजिच्च 013a
स शूलभृच्छोणितभृत्करालस्तं कर्मभिर्विदितं वै स्तुवन्ति 013c
तं गन्धर्वा अप्सरसश्च नित्यमुपतिष्ठन्ते विबुधानां शतानि 014a
तं राक्षसाश्च परिसंवहन्ते रायस्पोषः स विजिगीषुरेकः 014c
तमध्वरे शंसितारः स्तुवन्ति रथन्तरे सामगाश्च स्तुवन्ति 015a
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ति 015c
स पौराणीं ब्रह्मगुहां प्रविष्टो महीसत्रं भारताग्रे ददर्श 016a
स चैव गामुद्दधाराग्र्यकर्मा विक्षोभ्य दैत्यानुरगान्दानवांश्च 016c
तस्य भक्षान्विविधान्वेदयन्ति तमेवाजौ वाहनं वेदयन्ति 017a
तस्यान्तरिक्षं पृथिवी दिवं च सर्वं वशे तिष्ठति शाश्वतस्य 017c
स कुम्भरेताः ससृजे पुराणं यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् 018a
स मातरिश्वा विभुरश्ववाजी स रश्मिमान्सविता चादिदेवः 018c
तेनासुरा विजिताः सर्व एव तस्य विक्रान्तैर्विजितानीह त्रीणि 019a
स देवानां मानुषाणां पितॄणां तमेवाहुर्यज्ञविदां वितानम् 019c
स एव कालं विभजन्नुदेति तस्योत्तरं दक्षिणं चायने द्वे 020a
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति गभस्तयो मेदिनीं तापयन्तः 020c
तं ब्राह्मणा वेदविदो जुषन्ति तस्यादित्यो भामुपयुज्य भाति 021a
स मासि मास्यध्वरकृद्विधत्ते तमध्वरे वेदविदः पठन्ति 021c
स एकयुक्चक्रमिदं त्रिनाभि सप्ताश्वयुक्तं वहते वै त्रिधामा 022a
महातेजाः सर्वगः सर्वसिंहः कृष्णो लोकान्धारयते तथैकः 022c
अश्नन्ननश्नंश्च तथैव धीरः कृष्णं सदा पार्थ कर्तारमेहि 022e
स एकदा कक्षगतो महात्मा तृप्तो विभुः खाण्डवे धूमकेतुः 023a
स राक्षसानुरगांश्चावजित्य सर्वत्रगः सर्वमग्नौ जुहोति 023c
स एवाश्वः श्वेतमश्वं प्रयच्छत्स एवाश्वानथ सर्वांश्चकार 024a
त्रिवन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिराश्चतुरस्रश्च तस्य 024c
स विहायो व्यदधात्पञ्चनाभिः स निर्ममे गां दिवमन्तरिक्षम् 025a
एवं रम्यानसृजत्पर्वतांश्च हृषीकेशोऽमितदीप्ताग्नितेजाः 025c
स लङ्घयन्वै सरितो जिघांसन्स तं वज्रं प्रहरन्तं निरास 026a
स महेन्द्रः स्तूयते वै महाध्वरे विप्रैरेको ऋक्सहस्रैः पुराणैः 026c
दुर्वासा वै तेन नान्येन शक्यो गृहे राजन्वासयितुं महौजाः 027a
तमेवाहुरृषिमेकं पुराणं स विश्वकृद्विदधात्यात्मभावान् 027c
वेदांश्च यो वेदयतेऽधिदेवो विधींश्च यश्चाश्रयते पुराणान् 028a
कामे वेदे लौकिके यत्फलं च विष्वक्सेने सर्वमेतत्प्रतीहि 028c
ज्योतींषि शुक्लानि च सर्वलोके त्रयो लोका लोकपालास्त्रयश्च 029a
त्रयोऽग्नयो व्याहृतयश्च तिस्रः सर्वे देवा देवकीपुत्र एव 029c
संवत्सरः स ऋतुः सोऽर्धमासः सोऽहोरात्रः स कला वै स काष्ठाः 030a
मात्रा मुहूर्ताश्च लवाः क्षणाश्च विष्वक्सेने सर्वमेतत्प्रतीहि 030c
चन्द्रादित्यौ ग्रहनक्षत्रताराः सर्वाणि दर्शान्यथ पौर्णमास्यः 031a
नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात्सर्वमेतत्प्रसूतम् 031c
रुद्रादित्या वसवोऽथाश्विनौ च साध्या विश्वे मरुतां षड्गणाश्च 032a
प्रजापतिर्देवमातादितिश्च सर्वे कृष्णादृषयश्चैव सप्त 032c
वायुर्भूत्वा विक्षिपते च विश्वमग्निर्भूत्वा दहते विश्वरूपः 033a
आपो भूत्वा मज्जयते च सर्वं ब्रह्मा भूत्वा सृजते विश्वसङ्घान् 033c
वेद्यं च यद्वेदयते च वेदान्विधिश्च यश्चाश्रयते विधेयान् 034a
धर्मे च वेदे च बले च सर्वं चराचरं केशवं त्वं प्रतीहि 034c
ज्योतिर्भूतः परमोऽसौ पुरस्तात्प्रकाशयन्प्रभया विश्वरूपः 035a
अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः पुराकरोत्सर्वमेवाथ विश्वम् 035c
ऋतूनुत्पातान्विविधान्यद्भुतानि मेघान्विद्युत्सर्वमैरावतं च 036a
सर्वं कृष्णात्स्थावरं जङ्गमं च विश्वाख्याताद्विष्णुमेनं प्रतीहि 036c
विश्वावासं निर्गुणं वासुदेवं सङ्कर्षणं जीवभूतं वदन्ति 037a
ततः प्रद्युम्नमनिरुद्धं चतुर्थमाज्ञापयत्यात्मयोनिर्महात्मा 037c
स पञ्चधा पञ्चजनोपपन्नं सञ्चोदयन्विश्वमिदं सिसृक्षुः 038a
ततश्चकारावनिमारुतौ च खं ज्योतिरापश्च तथैव पार्थ 038c
स स्थावरं जङ्गमं चैवमेतच्चतुर्विधं लोकमिमं च कृत्वा 039a
ततो भूमिं व्यदधात्पञ्चबीजां द्यौः पृथिव्यां धास्यति भूरि वारि 039c
तेन विश्वं कृतमेतद्धि राजन्स जीवयत्यात्मनैवात्मयोनिः 039e
ततो देवानसुरान्मानुषांश्च लोकानृषींश्चाथ पितॄन्प्रजाश्च 040a
समासेन विविधान्प्राणिलोकान्सर्वान्सदा भूतपतिः सिसृक्षुः 040c
शुभाशुभं स्थावरं जङ्गमं च विष्वक्सेनात्सर्वमेतत्प्रतीहि 041a
यद्वर्तते यच्च भविष्यतीह सर्वमेतत्केशवं त्वं प्रतीहि 041c
मृत्युश्चैव प्राणिनामन्तकाले साक्षात्कृष्णः शाश्वतो धर्मवाहः 042a
भूतं च यच्चेह न विद्म किं चिद्विष्वक्सेनात्सर्वमेतत्प्रतीहि 042c
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् 043a
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् 043c
एतादृशः केशवोऽयं स्वयम्भूर्नारायणः परमश्चाव्ययश्च 044a
मध्यं चास्य जगतस्तस्थुषश्च सर्वेषां भूतानां प्रभवश्चाप्ययश्च 044c