भीष्म उवाच 001
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः 001a
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप 001c
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः 002a
तदेयं च्यवनेनेह हृता तेषां वसुन्धरा 002c
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् 003a
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः 003c
देवा ऊचुः 004
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित 004a
च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो 004c
ब्रह्मोवाच 005
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः 005a
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा 005c
ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे 006a
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति 006c
भूगतान्हि विजेतारो वयमित्येव पार्थिव 006e
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् 007a
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः 007c
स च तान्ब्राह्मणानाह धनी कपवचो यथा 008a
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते 008c
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः 009a
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः 009c
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते 010a
वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते 010c
दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः 011a
सर्वे च नियतात्मानो बालानां संविभागिनः 011c
उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् 012a
अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते 012c
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् 013a
विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः 013c
ब्राह्मणा ऊचुः 014
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः 014a
तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् 014c
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः 015a
गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् 015c
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः 016a
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् 016c
ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः 017a
नभसीव यथाभ्राणि व्यराजन्त नराधिप 017c
प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् 017e
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः 018a
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् 018c
इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत 019a
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप 019c
जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो 020a
ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः 020c
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः 021a
लोके च परमा कीर्तिर्धर्मश्च चरितो महान् 021c
अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः 022a
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह 022c
वायुरुवाच 023
ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च 023a
भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति 023c