भीष्म उवाच 001
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् 001a
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः 001c
घोरे तमस्ययुध्यन्त सहिता देवदानवाः 002a
अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ 002c
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः 003a
देवा नृपतिशार्दूल सहैव बलिभिस्तदा 003c
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः 004a
अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने 004c
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् 005a
असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ 005c
वयं वध्यामहे चापि शत्रुभिस्तमसावृते 006a
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो 006c
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव 007a
तिमिरघ्नश्च सविता दस्युहा चैव नो भव 007c
एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी 008a
अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् 008c
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव 009a
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे 009c
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा 010a
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा 010c
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् 011a
पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः 011c
उद्भासितश्च सविता देवास्त्राता हतासुराः 012a
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा 012c
अद्वितीयेन मुनिना जपता चर्मवाससा 013a
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् 013c
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः 014a
ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् 014c
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् 015a
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः 015c
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् 016a
प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु 016c
इन्द्र उवाच 017
अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् 017a
देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः 017c
अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत 018a
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे 018c
च्यवन उवाच 019
न चेत्करिष्यसि वचो मयोक्तं बलसूदन 019a
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे 019c
ततः कर्म समारब्धं हिताय सहसाश्विनोः 020a
च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् 020c
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः 021a
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् 021c
तथा वज्रेण भगवानमर्षाकुललोचनः 021e
तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः 022a
अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् 022c
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह 023a
मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः 023c
तस्य दन्तसहस्रं तु बभूव शतयोजनम् 024a
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः 024c
हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् 024e
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः 025a
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे 025c
ते सम्मन्त्र्य ततो देवा मदस्यास्यगतास्तदा 026a
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये 026c
अश्विभ्यां सह सोमं च पिबामो विगतज्वराः 026e
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् 027a
च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ 027c
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः 028a
अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् 028c
एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः 029a
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् 029c
एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् 030a
ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् 030c