भीष्म उवाच 001
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् 001a
शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह 001c
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः 002a
यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा 002c
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ 003a
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः 003c
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् 004a
ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् 004c
अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् 005a
इदमूचुर्महात्मानं वाक्यं काले जनाधिप 005c
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः 006a
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गव 006c
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् 007a
प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये 007c
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा 008a
अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः 008c
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा 009a
उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् 009c
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः 010a
येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः 010c
ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः 011a
अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि 011c
इत्युक्त आह देवान्स न शक्नोमि महीगतान् 012a
दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव 012c
एवं दग्धा भगवता दानवाः स्वेन तेजसा 013a
अगस्त्येन तदा राजंस्तपसा भावितात्मना 013c
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ 014a
ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् 014c
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् 015a
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः 015c
आदित्याः सत्रमासन्त सरो वै मानसं प्रति 016a
वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् 016c
यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् 017a
हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः 017c
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः 018a
हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः 018c
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् 019a
विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् 019c
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह 020a
ततस्तैरर्दिता देवाः शरणं वासवं ययुः 020c
स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ 021a
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः 021c
तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः 022a
अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा 022c
कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः 023a
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः 023c
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् 024a
हताश्च खलिनो यत्र स देशः खलिनोऽभवत् 024c
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः 025a
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना 025c
एतत्कर्म वसिष्ठस्य कथितं ते मयानघ 026a
ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् 026c