वायुरुवाच 001
इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा 001a
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ 001c
धारणीं सर्वभूतानामयं प्राप्य वरो नृपः 002a
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् 002c
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् 003a
अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् 003c
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा 004a
प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः 004c
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता 005a
धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप 005c
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः 006a
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः 006c
अथागम्य महाराज नमस्कृत्य च कश्यपम् 007a
पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः 007c
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् 008a
अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् 008c
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः 009a
शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले 009c
भद्रा सोमस्य दुहिता रूपेण परमा मता 010a
तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत 010c
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी 011a
उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा 011c
तत आहूय सोतथ्यं ददावत्र यशस्विनीम् 012a
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण 012c
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह 013a
स चागम्य वनप्रस्थं यमुनायां जहार ताम् 013c
जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति 014a
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् 014c
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् 015a
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् 015c
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः 015e
अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम् 016a
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा 017a
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः 017c
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि 017e
लोकपालोऽसि लोकानां न लोकस्य विलोपकः 018a
सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै 018c
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः 019a
मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् 019c
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे 019e
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् 020a
उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव 020c
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने 021a
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् 021c
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः 022a
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः 022c
पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः 023a
सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा 023c
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः 024a
दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् 024c
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः 025a
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः 025c
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति 026a
अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे 026c
तस्मिन्सञ्चूर्णिते देशे भद्रामादाय वारिपः 027a
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै 027c
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् 028a
मुमोच च जगद्दुःखाद्वरुणं चैव हैहय 028c
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् 029a
उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप 029c
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप 030a
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ 030c
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः 031a
ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् 031c