वायुरुवाच 001
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् 001a
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः 001c
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह 002a
नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः 002c
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा 003a
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा 003c
स ताः पिबन्क्षीरमिव नातृप्यत महातपाः 004a
अपूरयन्महौघेन महीं सर्वां च पार्थिव 004c
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः 005a
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् 005c
अभिशप्तश्च भगवान्गौतमेन पुरन्दरः 006a
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः 006c
तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा 007a
ब्राह्मणैरभिशप्तः सल्ँलवणोदः कृतो विभो 007c
सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः 008a
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः 008c
मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् 009a
सुवर्णधारिणा नित्यमवशप्ता द्विजातिना 009c
समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप 010a
गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः 010c
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् 011a
तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् 011c
त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा 012a
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् 012c
अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् 013a
स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् 013c
अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् 014a
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे 014c
तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः 015a
येनेदं निखिलं विश्वं जनितं स्थावरं चरम् 015c
अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः 016a
अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् 016c
द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः 017a
स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः 017c
तिष्ठेत्कथमिति ब्रूहि न किञ्चिद्धि तदा भवेत् 018a
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः 018c
नास्त्यण्डमस्ति तु ब्रह्मा स राजल्ँलोकभावनः 019a
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् 019c