युधिष्ठिर उवाच 001
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप 001a
कं वा कर्मोदयं मत्वा तानर्चसि महामते 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
पवनस्य च संवादमर्जुनस्य च भारत 002c
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः 003a
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः 003c
स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् 004a
शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः 004c
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे 005a
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च 005c
आराधयामास च तं कृतवीर्यात्मजो मुनिम् 006a
न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः 006c
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् 007a
सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा 007c
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे 008a
विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत 008c
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः 008e
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम 009a
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित 009c
अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् 009e
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् 010a
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः 010c
ततः स रथमास्थाय ज्वलनार्कसमद्युतिः 011a
अब्रवीद्वीर्यसम्मोहात्को न्वस्ति सदृशो मया 011c
वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा 011e
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी 012a
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् 012c
सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः 012e
अर्जुन उवाच 013
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये 013a
कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः 013c
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः 014a
त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते 014c
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् 015a
श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि 015c
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् 016a
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः 016c
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा 017a
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे 017c
कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि 018a
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः 018c
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन 019a
देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् 019c
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् 020a
न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् 020c
अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी 021a
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत 021c
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु 022a
एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् 022c
अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः 023a
निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः 023c
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः 024a
वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् 024c
अर्जुन उवाच 025
अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः 025a
यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् 025c
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् 026a
अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा 026c