युधिष्ठिर उवाच 001
के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च 001a
किमाचारः कीदृशेषु पितामह न रिष्यते 001c
भीष्म उवाच 002
ब्राह्मणानां परिभवः सादयेदपि देवताः 002a
ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते 002c
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् 003a
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः 003c
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः 004a
धनत्यागाभिरामाश्च वाक्संयमरताश्च ये 004c
रमणीयाश्च भूतानां निधानं च धृतव्रताः 005a
प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः 005c
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् 006a
प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः 006c
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः 007a
यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः 007c
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः 008a
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा 008c
धुरि ये नावसीदन्ति विषमे सद्गवा इव 009a
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः 009c
भोजनादेव ये लोकांस्त्रायन्ते महतो भयात् 010a
दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि 010c
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः 011a
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः 011c
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः 012a
परावरविशेषज्ञा गन्तारः परमां गतिम् 012c
विमुक्ता धुतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः 013a
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः 013c
चन्दने मलपङ्के च भोजनेऽभोजने समाः 014a
समं येषां दुकूलं च शाणक्षौमाजिनानि च 014c
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि 015a
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः 015c
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् 016a
लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः 016c
अपेयः सागरो येषामभिशापान्महात्मनाम् 017a
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति 017c
देवानामपि ये देवाः कारणं कारणस्य च 018a
प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः 018c
येषां वृद्धश्च बालश्च सर्वः सम्मानमर्हति 019a
तपोविद्याविशेषात्तु मानयन्ति परस्परम् 019c
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् 020a
विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः 020c
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् 021a
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् 021c
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति 022a
हविर्यज्ञेषु च वहन्भूय एवाभिशोभते 022c
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु 023a
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् 023c