वैशम्पायन उवाच 001
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः 001a
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत 001c
किमेकं दैवतं लोके किं वाप्येकं परायणम् 002a
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् 002c
को धर्मः सर्वधर्माणां भवतः परमो मतः 003a
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् 003c
भीष्म उवाच 004
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् 004a
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः 004c
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् 005a
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च 005c
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् 006a
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् 006c
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् 007a
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् 007c
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः 008a
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा 008c
परमं यो महत्तेजः परमं यो महत्तपः 009a
परमं यो महद्ब्रह्म परमं यः परायणम् 009c
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् 010a
दैवतं देवतानां च भूतानां योऽव्ययः पिता 010c
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे 011a
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये 011c
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते 012a
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् 012c
यानि नामानि गौणानि विख्यातानि महात्मनः 013a
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये 013c
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः 014a
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः 014c
पूतात्मा परमात्मा च मुक्तानां परमा गतिः 015a
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च 015c
योगो योगविदां नेता प्रधानपुरुषेश्वरः 016a
नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः 016c
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः 017a
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः 017c
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः 018a
अनादिनिधनो धाता विधाता धातुरुत्तमः 018c
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः 019a
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः 019c
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः 020a
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् 020c
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः 021a
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः 021c
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः 022a
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् 022c
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः 023a
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः 023c
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः 024a
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः 024c
वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः 025a
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः 025c
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः 026a
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः 026c
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः 027a
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः 027c
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः 028a
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः 028c
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः 029a
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः 029c
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः 030a
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः 030c
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः 031a
अतीन्द्रियो महामायो महोत्साहो महाबलः 031c
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः 032a
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् 032c
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः 033a
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः 033c
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः 034a
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः 034c
अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान्स्थिरः 035a
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा 035c
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः 036a
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः 036c
अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः 037a
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् 037c
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः 038a
अहः संवर्तको वह्निरनिलो धरणीधरः 038c
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः 039a
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः 039c
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः 040a
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः 040c
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः 041a
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः 041c
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः 042a
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः 042c
ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः 043a
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः 043c
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः 044a
औषधं जगतः सेतुः सत्यधर्मपराक्रमः 044c
भूतभव्यभवन्नाथः पवनः पावनोऽनिलः 045a
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः 045c
युगादिकृद्युगावर्तो नैकमायो महाशनः 046a
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् 046c
इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः 047a
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः 047c
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः 048a
अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः 048c
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः 049a
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः 049c
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः 050a
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः 050c
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् 051a
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः 051c
अतुलः शरभो भीमः समयज्ञो हविर्हरिः 052a
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः 052c
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः 053a
महीधरो महाभागो वेगवानमिताशनः 053c
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः 054a
करणं कारणं कर्ता विकर्ता गहनो गुहः 054c
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः 055a
परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः 055c
रामो विरामो विरतो मार्गो नेयो नयोऽनयः 056a
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः 056c
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः 057a
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः 057c
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः 058a
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः 058c
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् 059a
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः 059c
अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः 060a
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः 060c
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः 061a
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् 061c
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् 062a
मनोहरो जितक्रोधो वीरबाहुर्विदारणः 062c
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् 063a
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः 063c
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् 064a
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः 064c
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः 065a
आदिदेवो महादेवो देवेशो देवभृद्गुरुः 065c
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः 066a
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः 066c
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः 067a
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः 067c
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः 068a
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः 068c
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः 069a
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः 069c
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः 070a
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् 070c
महावराहो गोविन्दः सुषेणः कनकाङ्गदी 071a
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः 071c
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः 072a
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः 072c
भगवान्भगहा नन्दी वनमाली हलायुधः 073a
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः 073c
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः 074a
दिवःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः 074c
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् 075a
सन्न्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् 075c
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः 076a
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः 076c
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः 077a
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः 077c
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः 078a
श्रीधरः श्रीकरः श्रेयः श्रीमाल्ँलोकत्रयाश्रयः 078c
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः 079a
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः 079c
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः 080a
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः 080c
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः 081a
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः 081c
कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः 082a
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः 082c
कामदेवः कामपालः कामी कान्तः कृतागमः 083a
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः 083c
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः 084a
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः 084c
महाक्रमो महाकर्मा महातेजा महोरगः 085a
महाक्रतुर्महायज्वा महायज्ञो महाहविः 085c
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः 086a
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः 086c
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः 087a
वसुप्रदो वासुदेवो वसुर्वसुमना हविः 087c
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः 088a
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः 088c
भूतावासो वासुदेवो सर्वासुनिलयोऽनलः 089a
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः 089c
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् 090a
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः 090c
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् 091a
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः 091c
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी 092a
वीरहा विषमः शून्यो घृताशीरचलश्चलः 092c
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् 093a
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः 093c
तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः 094a
प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः 094c
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः 095a
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् 095c
समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः 096a
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा 096c
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः 097a
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः 097c
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः 098a
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी 098c
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः 099a
महाह्रदो महागर्तो महाभूतो महानिधिः 099c
कुमुदः कुन्दरः कुन्दः पर्जन्यः पवनोऽनिलः 100a
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः 100c
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः 101a
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः 101c
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः 102a
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः 102c
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् 103a
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः 103c
भारभृत्कथितो योगी योगीशः सर्वकामदः 104a
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः 104c
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः 105a
अपराजितः सर्वसहो नियन्ता नियमो यमः 105c
सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः 106a
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः 106c
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः 107a
रविर्विरोचनः सूर्यः सविता रविलोचनः 107c
अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः 108a
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतम् 108c
सनात्सनातनतमः कपिलः कपिरव्ययः 109a
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः 109c
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः 110a
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः 110c
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः 111a
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः 111c
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः 112a
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः 112c
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः 113a
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः 113c
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः 114a
जननो जनजन्मादिर्भीमो भीमपराक्रमः 114c
आधारनिलयो धाता पुष्पहासः प्रजागरः 115a
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः 115c
प्रमाणं प्राणनिलयः प्राणकृत्प्राणजीवनः 116a
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः 116c
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः 117a
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः 117c
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः 118a
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च 118c
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः 119a
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः 119c
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः 120a
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः 120c
इतीदं कीर्तनीयस्य केशवस्य महात्मनः 121a
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् 121c
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् 122a
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः 122c
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् 123a
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् 123c
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् 124a
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः 124c
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः 125a
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् 125c
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च 126a
अचलां श्रियमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् 126c
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति 127a
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः 127c
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् 128a
भयान्मुच्येत भीतश्च मुच्येतापन्न आपदः 128c
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् 129a
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः 129c
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः 130a
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् 130c
न वासुदेवभक्तानामशुभं विद्यते क्वचित् 131a
जन्ममृत्युजराव्याधिभयं वाप्युपजायते 131c
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः 132a
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः 132c
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः 133a
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे 133c
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः 134a
वासुदेवस्य वीर्येण विधृतानि महात्मनः 134c
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् 135a
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् 135c
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः 136a
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च 136c
सर्वागमानामाचारः प्रथमं परिकल्प्यते 137a
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः 137c
ऋषयः पितरो देवा महाभूतानि धातवः 138a
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् 138c
योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पानि कर्म च 139a
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् 139c
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः 140a
त्रील्ँलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः 140c
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् 141a
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च 141c
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् 142a
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् 142c