महेश्वर उवाच 001
परावरज्ञे धर्मज्ञे तपोवननिवासिनि 001a
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे 001c
दक्षे शमदमोपेते निर्ममे धर्मचारिणि 002a
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् 002c
सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती 003a
मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च 003c
वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला 004a
रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः 004c
अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः 005a
पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः 005c
तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि 006a
स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः 006c
सहधर्मचरी मे त्वं समशीला समव्रता 007a
समानसारवीर्या च तपस्तीव्रं कृतं च ते 007c
त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति 007e
स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा 008a
गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा 008c
मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता 009a
सुरकार्यकरी च त्वं लोकसन्तानकारिणी 009c
तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे 010a
तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे 010c
उमोवाच 011
भगवन्सर्वभूतेश भूतभव्यभवोद्भव 011a
त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे 011c
इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः 012a
उपस्पर्शनहेतोस्त्वा समीपस्था उपासते 012c
एताभिः सह सम्मन्त्र्य प्रवक्ष्याम्यनुपूर्वशः 013a
प्रभवन्योऽनहंवादी स वै पुरुष उच्यते 013c
स्त्री च भूतेश सततं स्त्रियमेवानुधावति 014a
मया सम्मानिताश्चैव भविष्यन्ति सरिद्वराः 014c
एषा सरस्वती पुण्या नदीनामुत्तमा नदी 015a
प्रथमा सर्वसरितां नदी सागरगामिनी 015c
विपाशा च वितस्ता च चन्द्रभागा इरावती 016a
शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा 016c
तथा देवनदी चेयं सर्वतीर्थाभिसंवृता 017a
गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा 017c
इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा 018a
स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा 018c
अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला 019a
स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः 019c
अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः 020a
तं तु सम्मन्त्र्य युष्माभिर्वक्तुमिच्छामि शङ्करे 020c
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् 021a
दिवि वा सागरगमास्तेन वो मानयाम्यहम् 021c
भीष्म उवाच 022
एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः 022a
ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् 022c
बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता 023a
शैलराजसुतां देवीं पुण्या पापापहां शिवाम् 023c
बुद्ध्या विनयसम्पन्ना सर्वज्ञानविशारदा 024a
सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् 024c
धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा 025a
या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे 025c
प्रभवन्पृच्छते यो हि सम्मानयति वा पुनः 026a
नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति 026c
ज्ञानविज्ञानसम्पन्नानूहापोहविशारदान् 027a
प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति 027c
अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि 028a
अन्यथैव ह्यहम्मानी दुर्बलं वदते वचः 028c
दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते 029a
त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् 029c
भीष्म उवाच 030
ततः साराधिता देवी गङ्गया बहुभिर्गुणैः 030a
प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी 030c
स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि 031a
तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् 031c
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः 032a
सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः 032c
सुस्वभावा सुवचना सुवृत्ता सुखदर्शना 033a
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 033c
सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी 034a
देववत्सततं साध्वी या भर्तारं प्रपश्यति 034c
शुश्रूषां परिचारं च देववद्या करोति च 035a
नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना 035c
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते 036a
या साध्वी नियताचारा सा भवेद्धर्मचारिणी 036c
श्रुत्वा दम्पतिधर्मं वै सहधर्मकृतं शुभम् 037a
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 037c
परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा 038a
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता 038c
न चन्द्रसूर्यौ न तरुं पुन्नाम्नो या निरीक्षते 039a
भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी 039c
दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् 040a
पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी 040c
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् 041a
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी 041c
शुश्रूषां परिचर्यां च करोत्यविमनाः सदा 042a
सुप्रतीता विनीता च सा नारी धर्मभागिनी 042c
कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता 044a
सुसम्मृष्टक्षया चैव गोशकृत्कृतलेपना 044c
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा 045a
देवतातिथिभृत्यानां निरुप्य पतिना सह 045c
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि 046a
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते 046c
श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता 047a
मातापितृपरा नित्यं या नारी सा तपोधना 047c
ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा 048a
बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी 048c
व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया 049a
पतिचित्ता पतिहिता सा पतिव्रतभागिनी 049c
पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः 050a
या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा 050c
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः 051a
पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः 051c
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् 052a
अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर 052c
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् 053a
पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन 053c
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा 054a
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया 054c
एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव 055a
या त्वेवम्भाविनी नारी सा भवेद्धर्मभागिनी 055c
भीष्म उवाच 056
इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् 056a
लोकान्विसर्जयामास सर्वैरनुचरैः सह 056c
ततो ययुर्भूतगणाः सरितश्च यथागतम् 057a
गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् 057c