उमोवाच 001
किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः 001a
स्वर्गं समभिपद्यन्ते सम्प्रदानेन केन वा 001c
महेश्वर उवाच 002
दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु 002a
भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः 002c
प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा 003a
नैत्यकानि च सर्वाणि किमिच्छकमतीव च 003c
आसनं शयनं यानं धनं रत्नं गृहांस्तथा 004a
सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः 004c
सुप्रतीतमना नित्यं यः प्रयच्छति मानवः 005a
एवम्भूतो मृतो देवि देवलोकेऽभिजायते 005c
तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् 006a
सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु 006c
तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते 007a
महाभोगे कुले देवि धनधान्यसमाचिते 007c
तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः 008a
महाभोगो महाकोशो धनी भवति मानवः 008c
एते देवि महाभोगाः प्राणिनो दानशीलिनः 009a
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः 009c
अपरे मानवा देवि प्रदानकृपणा द्विजैः 010a
याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः 010c
दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि 011a
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः 011c
न धनानि न वासांसि न भोगान्न च काञ्चनम् 012a
न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन 012c
अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः 013a
एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः 013c
ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् 014a
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः 014c
क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः 015a
निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् 015c
अल्पभोगकुले जाता अल्पभोगरता नराः 016a
अनेन कर्मणा देवि भवन्त्यधनिनो नराः 016c
अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः 017a
आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः 017c
मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः 018a
पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः 018c
अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि 019a
अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः 019c
गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते 020a
अभिमानप्रवृत्तेन लोभेन समवस्थिताः 020c
सम्मान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च 021a
एवंविधा नरा देवि सर्वे निरयगामिनः 021c
ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै 022a
वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले 022c
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् 023a
कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः 023c
न स्तम्भी न च मानी यो देवताद्विजपूजकः 024a
लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् 024c
सर्ववर्णप्रियकरः सर्वभूतहितः सदा 025a
अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा 025c
स्वागतेनैव सर्वेषां भूतानामविहिंसकः 026a
यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति 026c
मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन् 027a
अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः 027c
एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते 028a
ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् 028c
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः 029a
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् 029c
सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः 030a
स्वकर्मफलमाप्नोति स्वयमेव नरः सदा 030c
उदात्तकुलजातीय उदात्ताभिजनः सदा 031a
एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः 031c
यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः 032a
हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः 032c
लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने 033a
हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह 033c
उपक्रामति जन्तूंश्च उद्वेगजननः सदा 034a
एवंशीलसमाचारो निरयं प्रतिपद्यते 034c
स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् 035a
बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले 035c
लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः 036a
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु 036c
अपरः सर्वभूतानि दयावाननुपश्यति 037a
मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः 037c
नोद्वेजयति भूतानि न विहिंसयते तथा 038a
हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु 038c
न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च 039a
उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः 039c
एवंशीलसमाचारः स्वर्गे समुपजायते 040a
तत्रासौ भवने दिव्ये मुदा वसति देववत् 040c
स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते 041a
अल्पाबाधो निरीतीकः स जातः सुखमेधते 041c
सुखभागी निरायासो निरुद्वेगः सदा नरः 042a
एष देवि सतां मार्गो बाधा यत्र न विद्यते 042c
उमोवाच 043
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः 043a
ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः 043c
दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः 043e
केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् 044a
अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः 044c
एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर 044e
जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा 045a
नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै 045c
महेश्वर उवाच 046
ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा 046a
परिपृच्छन्त्यहरहः कुशलाकुशलं तथा 046c
वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा 047a
लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा 047c
स चेन्मानुषतां याति मेधावी तत्र जायते 048a
श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते 048c
परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते 049a
तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह 049c
मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् 050a
रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः 050c
ये तु मूढा दुराचारा वियोनौ मैथुने रताः 051a
पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते 051c
पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः 052a
प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः 052c
उमोवाच 053
सावद्यं किं नु वै कर्म निरवद्यं तथैव च 053a
श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम 053c
महेश्वर उवाच 054
श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् 054a
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते 054c
यदि मानुषतां देवि कदाचित्स निगच्छति 055a
मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते 055c
एष देवि सतां धर्मो मन्तव्यो भूतिकारकः 056a
नृणां हितार्थाय तव मया वै समुदाहृतः 056c
उमोवाच 057
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः 057a
ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् 057c
व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः 058a
अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः 058c
यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे 059a
केन कर्मविपाकेन भवन्तीह वदस्व मे 059c
महेश्वर उवाच 060
आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः 060a
प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः 060c
अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः 061a
अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः 061c
ते चेत्कालकृतोद्योगात्सम्भवन्तीह मानुषाः 062a
निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः 062c
एष देवि मया सर्वः संशयच्छेदनाय ते 063a
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः 063c