उमोवाच 001
भगवन्सर्वभूतेश सुरासुरनमस्कृत 001a
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो 001c
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा 002a
बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः 002c
केन शीलेन वा देव कर्मणा कीदृशेन वा 003a
समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः 003c
महेश्वर उवाच 004
देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते 004a
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः 004c
सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः 005a
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः 005c
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः 006a
वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः 006c
कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन 007a
ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः 007c
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः 008a
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः 008c
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु 009a
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः 009c
परस्वे निर्ममा नित्यं परदारविवर्जकाः 010a
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः 010c
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये 011a
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः 011c
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च 012a
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः 012c
स्वदारनिरता ये च ऋतुकालाभिगामिनः 013a
अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः 013c
परदारेषु ये नित्यं चारित्रावृतलोचनाः 014a
यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः 014c
एष देवकृतो मार्गः सेवितव्यः सदा नरैः 015a
अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः 015c
दानधर्मतपोयुक्तः शीलशौचदयात्मकः 016a
वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः 016c
स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः 016e
उमोवाच 017
वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः 017a
तानि कर्माणि मे देव वद भूतपतेऽनघ 017c
महेश्वर उवाच 018
आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा 018a
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः 018c
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च 019a
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः 019c
श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् 020a
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः 020c
कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् 021a
अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः 021c
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् 022a
ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः 022c
वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः 023a
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः 023c
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः 024a
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः 024c
न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम् 025a
सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः 025c
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः 026a
शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः 026c
उमोवाच 027
मनसा बध्यते येन कर्मणा पुरुषः सदा 027a
तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् 027c
महेश्वर उवाच 028
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा 028a
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु 028c
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः 029a
बध्यते मानवो येन शृणु चान्यच्छुभानने 029c
अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः 030a
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 030c
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् 031a
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः 031c
तथैव परदारान्ये कामवृत्तान्रहोगतान् 032a
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 032c
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः 033a
भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः 033c
श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः 034a
स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः 034c
अवैरा ये त्वनायासा मैत्रचित्तपराः सदा 035a
सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः 035c
श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः 036a
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः 036c
शुभानामशुभानां च कर्मणां फलसञ्चये 037a
विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः 037c
न्यायोपेता गुणोपेता देवद्विजपराः सदा 038a
समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः 038c
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः 039a
स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि 039c
उमोवाच 040
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर 040a
तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि 040c
केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो 041a
तपसा वापि देवेश केनायुर्लभते महत् 041c
क्षीणायुः केन भवति कर्मणा भुवि मानवः 042a
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित 042c
अपरे च महाभोगा मन्दभोगास्तथापरे 043a
अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे 043c
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव 044a
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः 044c
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः 045a
महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः 045c
अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे 046a
दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि 046c
महेश्वर उवाच 047
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् 047a
मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् 047c
प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा 048a
नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः 048c
निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः 049a
अपि कीटपिपीलानामशरण्यः सुनिर्घृणः 049c
एवम्भूतो नरो देवि निरयं प्रतिपद्यते 050a
विपरीतस्तु धर्मात्मा रूपवानभिजायते 050c
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः 051a
यातनां निरये रौद्रां स कृच्छ्रां लभते नरः 051c
अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् 052a
मानुष्यं लभते चापि हीनायुस्तत्र जायते 052c
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः 053a
अप्रियः सर्वभूतानां हीनायुरुपजायते 053c
यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः 054a
निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन 054c
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते 055a
सर्वभूतेषु सस्नेहो यथात्मनि तथापरे 055c
ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते 056a
उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः 056c
अथ चेन्मानुषे लोके कदाचिदुपपद्यते 057a
तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते 057c
एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् 058a
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः 058c