उमोवाच 001
भगवन्भगनेत्रघ्न पूष्णो दशनपातन 001a
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् 001c
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा 002a
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् 002c
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् 003a
प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् 003c
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते 004a
क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो 004c
एतं मे संशयं देव वद भूतपतेऽनघ 005a
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः 005c
महेश्वर उवाच 006
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे 006a
क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः 006c
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः 007a
ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः 007c
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति 008a
क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति 008c
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते 009a
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते 009c
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः 010a
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा 010c
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् 011a
स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते 011c
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः 012a
ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते 012c
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि 013a
स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते 013c
स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः 014a
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः 014c
यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः 015a
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते 015c
इदं चैवापरं देवि ब्रह्मणा समुदीरितम् 016a
अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते 016c
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् 017a
घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् 017c
शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः 018a
पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः 018c
शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै 019a
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् 019c
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः 020a
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा 020c
यस्यान्नेनावशेषेण जठरे यो म्रियेत वै 021a
तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति 021c
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते 022a
अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै 022c
सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः 023a
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः 023c
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी 024a
निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः 024c
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः 025a
ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः 025c
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा 026a
शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् 026c
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि 027a
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः 027c
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः 027e
दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः 028a
ऋतुकालाभिगामी च नियतो नियताशनः 028c
चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः 029a
वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति 029c
ऋतवागनहंवादी निर्द्वन्द्वः शमकोविदः 030a
यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः 030c
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः 031a
गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः 031c
शेषाशी विजिताहारो निष्कामो निरहंवदः 032a
अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि 032c
सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः 033a
त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि 033c
स वैश्यः क्षत्रियकुले शुचौ महति जायते 033e
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः 034a
उपनीतो व्रतपरो द्विजो भवति सत्कृतः 034c
ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः 035a
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा 035c
आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् 036a
सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः 036c
धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः 037a
यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः 037c
ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः 038a
ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा 038c
सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः 039a
बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा 039c
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा 040a
शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् 040c
स्वार्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत् 041a
पितृदेवातिथिकृते साधनं कुरुते च यः 041c
स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च 042a
त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि 042c
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः 043a
त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् 043c
ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः 044a
विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा 044c
एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः 045a
शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः 045c
ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः 046a
ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः 046c
कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः 047a
शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् 047c
स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति 048a
विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः 048c
न योनिर्नापि संस्कारो न श्रुतं न च सन्नतिः 049a
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् 049c
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते 050a
वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति 050c
ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः 051a
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः 051c
एते योनिफला देवि स्थानभागनिदर्शकाः 052a
स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः 052c
ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् 053a
यत्तत्र बीजं वपति सा कृषिः पारलौकिकी 053c
मिताशिना सदा भाव्यं सत्पथालम्बिना सदा 054a
ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता 054c
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना 055a
नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना 055c
एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः 056a
आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते 056c
ब्राह्मण्यमेव सम्प्राप्य रक्षितव्यं यतात्मभिः 057a
योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते 057c
एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः 058a
ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते 058c