उमोवाच 001
देशेषु रमणीयेषु गिरीणां निर्झरेषु च 001a
स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च 001c
देशेषु च विचित्रेषु फलवत्सु समाहिताः 002a
मूलवत्सु च देशेषु वसन्ति नियतव्रताः 002c
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर 003a
वानप्रस्थेषु देवेश स्वशरीरोपजीविषु 003c
महेश्वर उवाच 004
वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता 004a
श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव 004c
संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः 005a
वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् 005c
त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया 006a
अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा 006c
नीवारग्रहणं चैव फलमूलनिषेवणम् 007a
इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् 007c
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् 008a
वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः 008c
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा 009a
मण्डूकयोगनियतैर्यथान्यायनिषेविभिः 009c
वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा 010a
शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः 010c
अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः 011a
अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः 011c
चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः 012a
कार्या यात्रा यथाकालं यथाधर्मं यथाविधि 012c
वननित्यैर्वनचरैर्वनपैर्वनगोचरैः 013a
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः 013c
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् 014a
नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् 014c
अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् 015a
पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च 015c
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसङ्करैः 016a
विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने 016c
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा 017a
सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् 017c
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् 018a
गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् 018c
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः 019a
विस्तरेणार्थसम्पन्नो यथास्थूलमुदाहृतः 019c
उमोवाच 020
भगवन्देवदेवेश सर्वभूतनमस्कृत 020a
यो धर्मो मुनिसङ्घस्य सिद्धिवादेषु तं वद 020c
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः 021a
स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः 021c
महेश्वर उवाच 022
स्वैरिणस्तापसा देवि सर्वे दारविहारिणः 022a
तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् 022c
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् 023a
समाधिः सत्पथस्थानं यथोदितनिषेवणम् 023c
ये च ते पूर्वकथिता धर्मा वननिवासिनाम् 024a
यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् 024c
ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः 025a
चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः 025c
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते 026a
न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः 026c
सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् 027a
हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते 027c
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः 028a
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते 028c
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् 029a
उभे एते समे स्यातामार्जवं वा विशिष्यते 029c
आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते 030a
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते 030c
आर्जवो भुवने नित्यं वसत्यमरसन्निधौ 031a
तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः 031c
क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः 032a
धर्मे रतमना नित्यं नरो धर्मेण युज्यते 032c
व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः 033a
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते 033c
उमोवाच 034
आश्रमाभिरता देव तापसा ये तपोधनाः 034a
दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते 034c
राजानो राजपुत्राश्च निर्धना वा महाधनाः 035a
कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् 035c
नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः 036a
केन वा कर्मणा देव भवन्ति वनगोचराः 036c
एतं मे संशयं देव तपश्चर्यागतं शुभम् 037a
शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन 037c
महेश्वर उवाच 038
उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः 038a
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः 038c
मण्डूकयोगशयनो यथास्थानं यथाविधि 039a
दीक्षां चरति धर्मात्मा स नागैः सह मोदते 039c
शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते 040a
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् 040c
शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते 041a
शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् 041c
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा 042a
यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः 042c
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा 043a
चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः 043c
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् 044a
मरुं संसाध्य यत्नेन राजा भवति पार्थिवः 044c
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः 045a
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् 045c
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च 046a
गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि 046c
आत्मानमुपजीवन्यो नियतो नियताशनः 047a
देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते 047c
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् 048a
त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते 048c
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् 049a
अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते 049c
साधयित्वात्मनात्मानं निर्द्वन्द्वो निष्परिग्रहः 050a
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् 050c
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते 050e
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् 051a
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते 051c
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः 052a
आत्मन्यात्मानमाधाय निर्द्वन्द्वो निष्परिग्रहः 052c
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् 053a
अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः 053c
वीराध्वानमना नित्यं वीरासनरतस्तथा 054a
वीरस्थायी च सततं स वीरगतिमाप्नुयात् 054c
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः 055a
दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः 055c
सुखं वसति धर्मात्मा दिवि देवगणैः सह 055e
वीरलोकगतो वीरो वीरयोगवहः सदा 056a
सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः 056c
वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः 056e
कामगेन विमानेन स वै चरति च्छन्दतः 057a
शक्रलोकगतः श्रीमान्मोदते च निरामयः 057c