उमोवाच 001
उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः 001a
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे 001c
महेश्वर उवाच 002
ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना 002a
लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः 002c
तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् 003a
ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः 003c
इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयम्भुवा 004a
पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु 004c
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः 005a
शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः 005c
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः 006a
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः 006c
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः 007a
वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता 007c
यजनं याजनं चैव तथा दानप्रतिग्रहौ 008a
अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः 008c
नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः 009a
दानं प्रशस्यते चास्य यथाशक्ति यथाविधि 009c
अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः 010a
गृहस्थता विशुद्धानां धर्मस्य निचयो महान् 010c
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः 011a
दाता ब्राह्मणसत्कर्ता सुसम्मृष्टनिवेशनः 011c
अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा 012a
अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः 012c
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा 013a
दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः 013c
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च 014a
सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः 014c
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 015a
शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् 015c
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते 016a
तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् 016c
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा 017a
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता 017c
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् 018a
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः 018c
एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता 019a
एकेनांशेन कामार्थ एकमंशं विवर्धयेत् 019c
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः 020a
तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः 020c
सर्वभूतदया धर्मो न चैकग्रामवासिता 021a
आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् 021c
न कुण्ड्यां नोदके सङ्गो न वाससि न चासने 022a
न त्रिदण्डे न शयने नाग्नौ न शरणालये 022c
अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः 023a
युक्तो योगं प्रति सदा प्रतिसङ्ख्यानमेव च 023c
वृक्षमूलशयो नित्यं शून्यागारनिवेशनः 024a
नदीपुलिनशायी च नदीतीररतिश्च यः 024c
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः 025a
आत्मन्येवात्मनो भावं समासज्याटति द्विजः 025c
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा 026a
परिव्रजति यो युक्तस्तस्य धर्मः सनातनः 026c
न चैकत्र चिरासक्तो न चैकग्रामगोचरः 027a
युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः 027c
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् 028a
यो मार्गमनुयातीमं पदं तस्य न विद्यते 028c
चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः 029a
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः 029c
अतः परतरं नास्ति नाधरं न तिरोऽग्रतः 030a
अदुःखमसुखं सौम्यमजरामरमव्ययम् 030c
उमोवाच 031
गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया 031a
भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् 031c
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् 032a
स्पृहा भवति मे नित्यं तपोवननिवासिषु 032c
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् 033a
तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् 033c
एतं मे संशयं देव मुनिधर्मकृतं विभो 034a
सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे 034c
निखिलेन मया पृष्टं महादेव यथातथम् 034e
महेश्वर उवाच 035
हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् 035a
यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे 035c
फेनपानामृषीणां यो धर्मो धर्मविदां सदा 036a
तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः 036c
उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् 037a
अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि 037c
एष तेषां विशुद्धानां फेनपानां तपोधने 038a
धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु 038c
वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले 039a
उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः 039c
मृगनिर्मोकवसनाश्चीरवल्कलवाससः 040a
निर्द्वन्द्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः 040c
अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः 041a
तपश्चरणमीहन्ते तेषां धर्मफलं महत् 041c
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये 042a
द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः 042c
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः 043a
सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये 043c
पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि 044a
सम्प्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा 044c
सोमपानां च देवानामूष्मपाणां तथैव च 045a
उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः 045c
तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा 046a
यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते 046c
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः 047a
ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु 047c
सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः 048a
कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः 048c
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् 049a
सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा 049c
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः 050a
सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै 050c
निवृत्तिरुपभोगस्य गोरसानां च वै रतिः 051a
स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् 051c
फलमूलाशनं वायुरापः शैवलभक्षणम् 052a
ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् 052c
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने 053a
अतीतपात्रसञ्चारे काले विगतभैक्षके 053c
अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः 054a
सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते 054c
न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः 055a
मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः 055c