महेश्वर उवाच 001
तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा 001a
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा 001c
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि 002a
प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना 002c
यतो यतः सा सुदती मामुपाधावदन्तिके 003a
ततस्ततो मुखं चारु मम देवि विनिर्गतम् 003c
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः 004a
चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः 004c
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह 005a
उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते 005c
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् 006a
दक्षिणं भीमसङ्काशं रौद्रं संहरति प्रजाः 006c
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया 007a
देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् 007c
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम 008a
दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम 008c
उमोवाच 009
वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते 009a
कथं गोवृषभो देव वाहनत्वमुपागतः 009c
महेश्वर उवाच 010
सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् 010a
सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् 010c
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः 011a
ततो दग्धा मया गावो नानावर्णत्वमागताः 011c
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना 012a
वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च 012c
उमोवाच 013
निवासा बहुरूपास्ते विश्वरूपगुणान्विताः 013a
तांश्च सन्त्यज्य भगवञ्श्मशाने रमसे कथम् 013c
केशास्थिकलिले भीमे कपालघटसङ्कुले 014a
गृध्रगोमायुकलिले चिताग्निशतसङ्कुले 014c
अशुचौ मांसकलिले वसाशोणितकर्दमे 015a
विनिकीर्णामिषचये शिवानादविनादिते 015c
महेश्वर उवाच 016
मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् 016a
न च मेध्यतरं किञ्चिच्छ्मशानादिह विद्यते 016c
तेन मे सर्ववासानां श्मशाने रमते मनः 017a
न्यग्रोधशाखासञ्छन्ने निर्भुक्तस्रग्विभूषिते 017c
तत्र चैव रमन्ते मे भूतसङ्घाः शुभानने 018a
न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे 018c
एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे 019a
पुण्यः परमकश्चैव मेध्यकामैरुपास्यते 019c
उमोवाच 020
भगवन्सर्वभूतेश सर्वधर्मभृतां वर 020a
पिनाकपाणे वरद संशयो मे महानयम् 020c
अयं मुनिगणः सर्वस्तपस्तप इति प्रभो 021a
तपोन्वेषकरो लोके भ्रमते विविधाकृतिः 021c
अस्य चैवर्षिसङ्घस्य मम च प्रियकाम्यया 022a
एतं ममेह सन्देहं वक्तुमर्हस्यरिन्दम 022c
धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः 023a
शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो 023c
नारद उवाच 024
ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् 024a
वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर 024c
महेश्वर उवाच 025
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् 025a
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः 025c
परदारेष्वसङ्कल्पो न्यासस्त्रीपरिरक्षणम् 026a
अदत्तादानविरमो मधुमांसस्य वर्जनम् 026c
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः 027a
देहिभिर्धर्मपरमैः कर्तव्यो धर्मसञ्चयः 027c
उमोवाच 028
भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि 028a
चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः 028c
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् 029a
वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् 029c
महेश्वर उवाच 030
न्यायतस्ते महाभागे संशयः समुदीरितः 030a
भूमिदेवा महाभागाः सदा लोके द्विजातयः 030c
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः 031a
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते 031c
तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः 032a
तथोपनयनं चैव द्विजायैवोपपद्यते 032c
गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः 033a
देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसम्भवः 033c
उमोवाच 034
भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि 034a
चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय 034c
महेश्वर उवाच 035
रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् 035a
व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् 035c
भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता 036a
नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा 036c
गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः 037a
विन्देतानन्तरं भार्यामनुरूपां यथाविधि 037c
शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् 038a
धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च 038c
आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः 039a
विघसाशी यताहारो गृहस्थः सत्यवाक्शुचिः 039c
अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् 040a
इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् 040c
यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु 041a
अपूर्वभोजनं धर्मो विघसाशित्वमेव च 041c
भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते 042a
ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः 042c
दम्पत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् 043a
गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया 043c
नित्योपलेपनं धर्मस्तथा नित्योपवासिता 044a
सुसम्मृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे 044c
एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः 045a
द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते 045c
यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः 046a
तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता 046c
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः 047a
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते 047c
प्रजाः पालयते यो हि धर्मेण मनुजाधिपः 048a
तस्य धर्मार्जिता लोकाः प्रजापालनसञ्चिताः 048c
तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च 049a
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च 049c
यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा 050a
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता 050c
सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः 051a
व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा 051c
आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते 052a
गोब्राह्मणार्थे विक्रान्तः सङ्ग्रामे निधनं गतः 052c
अश्वमेधजिताल्ँलोकान्प्राप्नोति त्रिदिवालये 052e
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा 053a
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च 053c
वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः 054a
विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः 054c
तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् 055a
वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः 055c
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः 056a
शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु 056c
स शूद्रः संशिततपाः सत्यसन्धो जितेन्द्रियः 057a
शुश्रूषन्नतिथिं प्राप्तं तपः सञ्चिनुते महत् 057c
त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः 058a
शूद्रो धर्मफलैरिष्टैः सम्प्रयुज्येत बुद्धिमान् 058c
एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने 059a
एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि 059c