भीष्म उवाच 001
ततो नारायणसुहृन्नारदो भगवानृषिः 001a
शङ्करस्योमया सार्धं संवादं प्रत्यभाषत 001c
तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः 002a
पुण्ये गिरौ हिमवति सिद्धचारणसेविते 002c
नानौषधियुते रम्ये नानापुष्पसमाकुले 003a
अप्सरोगणसङ्कीर्णे भूतसङ्घनिषेविते 003c
तत्र देवो मुदा युक्तो भूतसङ्घशतैर्वृतः 004a
नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः 004c
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः 005a
क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा 005c
उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा 006a
नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः 006c
किन्नरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा 006e
दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् 007a
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् 007c
तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् 007e
मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् 008a
नृत्यद्भिर्भूतसङ्घैश्च बर्हिणैश्च समन्ततः 008c
प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् 009a
दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् 009c
स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत 010a
स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः 011a
षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः 011c
तं महोत्सवसङ्काशं भीमरूपधरं पुनः 012a
दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन 012c
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः 013a
मरुतो वसवः साध्या विश्वेदेवाः सनातनाः 013c
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः 014a
भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः 014c
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः 015a
ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् 015c
विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह 016a
गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः 016c
तत्र देवो गिरितटे दिव्यधातुविभूषिते 017a
पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः 017c
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः 018a
व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः 018c
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् 019a
अभयः सर्वभूतानां भक्तानां वृषभध्वजः 019c
दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः 020a
विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः 020c
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ 021a
अप्रधृष्यतरं चैव महोरगसमाकुलम् 021c
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन 022a
तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ 022c
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता 023a
हरतुल्याम्बरधरा समानव्रतचारिणी 023c
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् 024a
गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा 024c
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा 025a
सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् 025c
ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना 026a
हरनेत्रे शुभे देवी सहसा सा समावृणोत् 026c
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् 027a
निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् 027c
जनश्च विमनाः सर्वो भयत्राससमन्वितः 028a
निमीलिते भूतपतौ नष्टसूर्य इवाभवत् 028c
ततो वितिमिरो लोकः क्षणेन समपद्यत 029a
ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता 029c
तृतीयं चास्य सम्भूतं नेत्रमादित्यसन्निभम् 030a
युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः 030c
ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् 031a
हरं प्रणम्य शिरसा ददर्शायतलोचना 031c
दह्यमाने वने तस्मिन्सशालसरलद्रुमे 032a
सचन्दनवने रम्ये दिव्यौषधिविदीपिते 032c
मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः 033a
शरणं चाप्यविन्दद्भिस्तत्सदः सङ्कुलं बभौ 033c
ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः 034a
द्वादशादित्यसदृशो युगान्ताग्निरिवापरः 034c
क्षणेन तेन दग्धः स हिमवानभवन्नगः 035a
सधातुशिखराभोगो दीनदग्धवनौषधिः 035c
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः 036a
भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता 036c
उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् 037a
पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् 037c
ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः 038a
प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः 038c
प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् 039a
उवाच सर्वभूतानां पतिं पतिमनिन्दिता 039c
भगवन्सर्वभूतेश शूलपाणे महाव्रत 040a
संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि 040c
किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् 041a
किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः 041c
किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः 042a
तथैव द्रुमसञ्छन्नः कृतोऽयं ते महेश्वर 042c
महेश्वर उवाच 043
नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते 043a
नष्टालोकस्ततो लोकः क्षणेन समपद्यत 043c
नष्टादित्ये तथा लोके तमोभूते नगात्मजे 044a
तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः 044c
तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः 045a
त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः 045c
उमोवाच 046
भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् 046a
पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा 046c
दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः 047a
केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः 047c
हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति 048a
जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा 048c
एतं मे संशयं सर्वं वद भूतपतेऽनघ 049a
सधर्मचारिणी चाहं भक्ता चेति वृषध्वज 049c
एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् 050a
तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः 050c
ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति 051a
हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने 051c