युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद 001a
आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले 001c
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् 002a
आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिन्दम 002c
अयं च कालः सम्प्राप्तो दुर्लभज्ञातिबान्धवः 003a
शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ 003c
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ 004a
वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव 004c
अयं नारायणः श्रीमान्सर्वपार्थिवसम्मतः 005a
भवन्तं बहुमानेन प्रश्रयेण च सेवते 005c
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः 006a
भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि 006c
वैशम्पायन उवाच 007
तस्य तद्वचनं श्रुत्वा स्नेहादागतसम्भ्रमः 007a
भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् 007c
हन्त ते कथयिष्यामि कथामतिमनोरमाम् 008a
अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः 008c
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु 009a
रुद्राण्याः संशयो यश्च दम्पत्योस्तं च मे शृणु 009c
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् 010a
दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ 010c
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः 011a
देवलः काश्यपश्चैव हस्तिकाश्यप एव च 011c
अपरे ऋषयः सन्तो दीक्षादमसमन्विताः 012a
शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः 012c
तेषामतिथिसत्कारमर्चनीयं कुलोचितम् 013a
देवकीतनयः प्रीतो देवकल्पमकल्पयत् 013c
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च 014a
उपोपविविशुः प्रीता विष्टरेषु महर्षयः 014c
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः 015a
राजर्षीणां सुराणां च ये वसन्ति तपोधनाः 015c
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् 016a
वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः 016c
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् 017a
सपक्षिमृगसङ्घातं सश्वापदसरीसृपम् 017c
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् 018a
शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् 018c
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः 019a
विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् 019c
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः 020a
सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् 020c
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः 021a
सपक्षिगणसङ्घुष्टः सश्वापदसरीसृपः 021c
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा 022a
विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः 022c
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् 023a
प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः 023c
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः 024a
निर्ममस्यागमवतो विस्मयः समुपागतः 024c
एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः 025a
ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः 025c
ऋषय ऊचुः 026
भवान्विसृजते लोकान्भवान्संहरते पुनः 026a
भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति 026c
पृथिव्यां यानि भूतानि स्थावराणि चराणि च 027a
तेषां पिता त्वं माता च प्रभुः प्रभव एव च 027c
एतन्नो विस्मयकरं प्रशंस मधुसूदन 028a
त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् 028c
ततो विगतसन्त्रासा वयमप्यरिकर्शन 029a
यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे 029c
वासुदेव उवाच 030
एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् 030a
कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः 030c
ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः 031a
भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः 031c
व्रतचर्यापरीतस्य तपस्विव्रतसेवया 032a
मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ 032c
व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् 033a
पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः 033c
ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः 034a
गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् 034c
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः 035a
तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः 035c
सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् 036a
शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः 036c
एतदस्य रहस्यं वः पद्मनाभस्य धीमतः 037a
मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः 037c
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः 038a
तपस्विव्रतसन्दीप्ता ज्ञानविज्ञानशोभिताः 038c
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि 039a
आश्चर्यं परमं किञ्चित्तद्भवन्तो ब्रुवन्तु मे 039c
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा 040a
भवद्भिः कथितस्येह तपोवननिवासिभिः 040c
यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् 041a
दिवि वा भुवि वा किञ्चित्पश्याम्यमलदर्शनाः 041c
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते 042a
न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे 042c
श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः 043a
चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् 043c
तदहं सज्जनमुखान्निःसृतं तत्समागमे 044a
कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् 044c
ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसन्निधौ 045a
नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् 045c
वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे 046a
वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् 046c
ततो मुनिगणाः सर्वे नारदं देवदर्शनम् 047a
तदा नियोजयामासुर्वचने वाक्यकोविदम् 047c
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो 048a
अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः 048c
तद्भवानृषिसङ्घस्य हितार्थं सर्वचोदितः 049a
यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति 049c
एवमुक्तः स मुनिभिर्नारदो भगवानृषिः 050a
कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् 050c