युधिष्ठिर उवाच 001
साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् 001a
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते 001c
भीष्म उवाच 002
साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः 002a
पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् 002c
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ 003a
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा 003c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 004a
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा 004c
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने 005a
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता 005c
स बुद्धिश्रुतसम्पन्नस्तं दृष्ट्वातीव भीषणम् 006a
सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे 006c
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् 007a
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः 007c
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तस्य रक्षसः 008a
आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह 008c
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः 009a
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः 009c
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि 010a
स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः 010c
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः 011a
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः 011c
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् 012a
प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः 012c
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् 013a
माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः 013c
सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः 014a
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः 014c
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः 015a
मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः 015c
प्राज्ञैः सम्भावितो नूनं नप्राज्ञैरुपसंहितः 016a
ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः 016c
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् 017a
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः 017c
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती 018a
तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः 018c
असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् 019a
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः 019c
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः 020a
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः 020c
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् 021a
बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः 021c
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् 022a
न भाति कालेऽभिहितं तेनासि हरिणः कृशः 022c
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् 023a
अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः 023c
नूनमासञ्जयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते 024a
कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः 024c
नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् 025a
मयार्थ इति जानाति तेनासि हरिणः कृशः 025c
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि 026a
विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः 026c
नानाबुद्धिरुचील्ँलोके मनुष्यान्नूनमिच्छसि 027a
ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः 027c
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् 028a
यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः 028c
चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते 029a
कृतमन्यैरपहृतं तेनासि हरिणः कृशः 029c
नूनमात्मकृतं दोषमपश्यन्किञ्चिदात्मनि 030a
अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः 030c
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् 031a
दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः 031c
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् 032a
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः 032c
धर्म्यमर्थं च काले च देशे चाभिहितं वचः 033a
न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः 033c
दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः 034a
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः 034c
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः 035a
ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः 035c
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि 036a
सुहृदामविरोधेन तेनासि हरिणः कृशः 036c
श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् 037a
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः 037c
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत् 038a
सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह 038c