भीष्म उवाच 001
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत 001a
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी 001c
लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति 001e
रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् 002a
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः 002c
यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु 002e
यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः 003a
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् 003c
अहं दानं प्रशंसामि भवानपि तपःश्रुते 004a
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् 004c
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् 005a
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् 005c
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः 006a
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः 006c
दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् 007a
सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् 007c
सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः 008a
तपसा तरते सर्वमेनसश्च प्रमुच्यते 008c
सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः 009a
तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः 009c
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः 010a
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् 010c
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् 011a
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः 011c
पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च 012a
अदाता यत्र यत्रैति सर्वतः सम्प्रणुद्यते 012c
अकर्ता चैव कर्ता च लभते यस्य यादृशम् 013a
यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि 013c
प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् 014a
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् 014c
कौमारदारव्रतवान्मैत्रेय निरतो भव 015a
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् 015c
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता 016a
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते 016c
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा 017a
दानेन तपसा चैव सर्वपापमपोह्यते 017c
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् 018a
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति 018c
तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् 019a
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः 019c