भीष्म उवाच 001
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः 001a
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः 001c
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् 002a
अनुज्ञातस्तु भवता किञ्चिद्ब्रूयामहं विभो 002c
व्यास उवाच 003
यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा 003a
ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव 003c
मैत्रेय उवाच 004
निर्दोषं निर्मलं चैव वचनं दानसंहितम् 004a
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः 004c
भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम 005a
भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव 005c
अपि मे दर्शनादेव भवतोऽभ्युदयो महान् 006a
मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः 006c
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् 007a
त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः 007c
तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च 008a
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते 008c
यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः 009a
एवं दत्त्वा श्रुतवति फलं दाता समश्नुते 009c
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः 010a
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् 010c
अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् 011a
तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः 011c
प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः 012a
स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः 012c
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः 013a
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः 013c
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः 014a
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते 014c
ये योनिशुद्धाः सततं तपस्यभिरता भृशम् 015a
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा 015c
तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते 016a
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः 016c