युधिष्ठिर उवाच 001
विद्या तपश्च दानं च किमेतेषां विशिष्यते 001a
पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च 002c
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् 003a
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले 003c
तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् 004a
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् 004c
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् 005a
प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः 005c
तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् 006a
कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते 006c
तपस्विनो धृतिमतः प्रमोदः समुपागतः 006e
एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च 007a
आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च 007c
पृथगाचरतस्तात पृथगात्मनि चात्मनोः 008a
अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया 008c
व्यास उवाच 009
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः 009a
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् 009c
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् 010a
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् 010c
इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् 010e
अल्पोऽपि तादृशो दायो भवत्युत महाफलः 011a
तृषिताय च यद्दत्तं हृदयेनानसूयता 011c
तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम 012a
अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो 012c
अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च 012e
पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् 013a
पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः 013c
अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् 014a
शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् 014c
यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि 015a
तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः 015c
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 016a
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः 016c
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः 017a
सर्वत्यागो यथा चेह तथा दानमनुत्तमम् 017c
त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् 018a
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः 018c
तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् 019a
श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् 019c
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् 020a
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः 020c
त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः 021a
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् 021c
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् 022a
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् 022c
रमस्वैधस्व मोदस्व देहि चैव यजस्व च 023a
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः 023c