भीष्म उवाच 001
क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान् 001a
त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः 001c
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः 002a
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा 002c
व्यास उवाच 003
क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् 003a
क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि 003c
पाहि सर्वाः प्रजाः सम्यक्शुभाशुभविदात्मवान् 004a
शुभैः संविभजन्कामैरशुभानां च पावनैः 004c
आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः 005a
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि 005c
भीष्म उवाच 006
सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर 006a
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च 006c
अचिरेणैव कालेन कीटः पार्थिवसत्तम 007a
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः 007c
ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः 008a
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा 008c
व्यास उवाच 009
भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन 009a
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु 009c
उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् 009e
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन 010a
धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम् 010c
कीट उवाच 011
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् 011a
धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे 011c
भीष्म उवाच 012
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् 012a
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् 012c
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः 012e
अवाप च परं कीटः पार्थ ब्रह्म सनातनम् 013a
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा 013c
तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुङ्गवाः 014a
सम्प्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक 014c