व्यास उवाच 001
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे 001a
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे 001c
अहं हि दर्शनादेव तारयामि तपोबलात् 002a
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते 002c
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् 003a
अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे 003c
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये 004a
धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः 004c
वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः 005a
किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः 005c
जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः 006a
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि 006c
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे 007a
तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि 007c
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत 008a
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु 008c
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् 009a
श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु 009c
स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना 010a
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः 010c
कीट उवाच 011
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः 011a
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् 011c
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः 012a
स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः 012c
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् 013a
सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् 013c
गृहेषु सुनिवासेषु सुखेषु शयनेषु च 014a
परार्ध्येषु महाभाग स्वपामीह सुपूजितः 014c
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः 015a
स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः 015c
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः 016a
यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम् 016c
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् 017a
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया 017c
व्यास उवाच 018
अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया 018a
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता 018c
न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा 019a
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना 019c
मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा 020a
तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा 020c
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि 021a
गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे 021c
राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् 022a
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी 022c
तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः 023a
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः 023c