युधिष्ठिर उवाच 001
अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे 001a
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह 001c
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे 002a
जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् 002c
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 003a
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः 003c
भीष्म उवाच 004
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 004a
संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते 004c
निरता येन भावेन तत्र मे शृणु कारणम् 005a
सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर 005c
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप 006a
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर 006c
ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा 007a
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि 007c
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् 008a
सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् 008c
कीट सन्त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे 009a
क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् 009c
कीट उवाच 010
शकटस्यास्य महतो घोषं श्रुत्वा भयं मम 010a
आगतं वै महाबुद्धे स्वन एष हि दारुणः 010c
श्रूयते न स मां हन्यादिति तस्मादपाक्रमे 010e
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् 011a
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो 011c
नृणां च संवाहयतां श्रूयते विविधः स्वनः 011e
सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना 012a
तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् 012c
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् 013a
अतो भीतः पलायामि गच्छेयं नासुखं सुखात् 013c
भीष्म उवाच 014
इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव 014a
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे 014c
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् 015a
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते 015c
कीट उवाच 016
सर्वत्र निरतो जीव इतीहापि सुखं मम 016a
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् 016c
इहापि विषयः सर्वो यथादेहं प्रवर्तितः 017a
मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः 017c
अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा 018a
अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः 018c
वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः 019a
मिथःकृतोऽपनिधनः परस्वहरणे रतः 019c
भृत्यातिथिजनश्चापि गृहे पर्युषितो मया 020a
मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता 020c
देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया 021a
न दत्तमर्थकामेन देयमन्नं पुनाति ह 021c
गुप्तं शरणमाश्रित्य भयेषु शरणागताः 022a
अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः 022c
धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् 023a
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् 023c
ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः 024a
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः 024c
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया 025a
स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् 025c
शुभानामपि जानामि कृतानां कर्मणां फलम् 026a
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया 026c
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः 027a
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः 027c
कर्मणा तेन चैवाहं सुखाशामिह लक्षये 028a
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन 028c