युधिष्ठिर उवाच 001
इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः 001a
विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा 001c
नापूपान्विविधाकाराञ्शाकानि विविधानि च 002a
षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् 002c
तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते 003a
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीह किञ्चन 003c
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा 004a
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ 004c
सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः 005a
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे 005c
भीष्म उवाच 006
एवमेतन्महाबाहो यथा वदसि भारत 006a
न मांसात्परमत्रान्यद्रसतो विद्यते भुवि 006c
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये 007a
अध्वना कर्शितानां च न मांसाद्विद्यते परम् 007c
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च 008a
न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप 008c
विवर्जने तु बहवो गुणाः कौरवनन्दन 009a
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु 009c
स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति 010a
नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः 010c
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते 011a
तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे 011c
शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः 012a
भक्षणे तु महान्दोषो वधेन सह कल्पते 012c
अहिंसालक्षणो धर्म इति वेदविदो विदुः 013a
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः 013c
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते 014a
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति 014c
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः 015a
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते 015c
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु 016a
वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति 016c
आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः 017a
अगस्त्येन पुरा राजन्मृगया येन पूज्यते 017c
नात्मानमपरित्यज्य मृगया नाम विद्यते 018a
समतामुपसङ्गम्य रूपं हन्यान्न वा नृप 018c
अतो राजर्षयः सर्वे मृगयां यान्ति भारत 019a
लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः 019c
न हि तत्परमं किञ्चिदिह लोके परत्र च 020a
यत्सर्वेष्विह लोकेषु दया कौरवनन्दन 020c
न भयं विद्यते जातु नरस्येह दयावतः 021a
दयावतामिमे लोकाः परे चापि तपस्विनाम् 021c
अभयं सर्वभूतेभ्यो यो ददाति दयापरः 022a
अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः 022c
क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम् 023a
सर्वभूतानि रक्षन्ति समेषु विषमेषु च 023c
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः 024a
मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् 024c
प्राणदानात्परं दानं न भूतं न भविष्यति 025a
न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् 025c
अनिष्टं सर्वभूतानां मरणं नाम भारत 026a
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः 026c
जातिजन्मजरादुःखे नित्यं संसारसागरे 027a
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च 027c
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः 028a
मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः 028c
जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः 029a
पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः 029c
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः 030a
आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः 030c
नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह 031a
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् 031c
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् 032a
स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः 032c
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् 033a
भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः 033c
मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् 034a
एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत 034c
घातको वध्यते नित्यं तथा वध्येत बन्धकः 035a
आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते 035c
येन येन शरीरेण यद्यत्कर्म करोति यः 036a
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते 036c
अहिंसा परमो धर्मस्तथाहिंसा परो दमः 037a
अहिंसा परमं दानमहिंसा परमं तपः 037c
अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् 038a
अहिंसा परमं मित्रमहिंसा परमं सुखम् 038c
अहिंसा परमं सत्यमहिंसा परमं श्रुतम् 038e
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् 039a
सर्वदानफलं वापि नैतत्तुल्यमहिंसया 039c
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा 040a
अहिंस्रः सर्वभूतानां यथा माता यथा पिता 040c
एतत्फलमहिंसाया भूयश्च कुरुपुङ्गव 041a
न हि शक्या गुणा वक्तुमिह वर्षशतैरपि 041c