युधिष्ठिर उवाच 001
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया 001a
श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः 001c
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा 002a
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते 002c
जातो नः संशयो धर्मे मांसस्य परिवर्जने 003a
दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः 003c
हत्वा भक्षयतो वापि परेणोपहृतस्य वा 004a
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः 004c
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ 005a
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् 005c
कथमायुरवाप्नोति कथं भवति सत्त्ववान् 006a
कथमव्यङ्गतामेति लक्षण्यो जायते कथम् 006c
भीष्म उवाच 007
मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुङ्गव 007a
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः 007c
रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् 008a
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः 008c
ऋषीणामत्र संवादो बहुशः कुरुपुङ्गव 009a
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर 009c
यो यजेताश्वमेधेन मासि मासि यतव्रतः 010a
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर 010c
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः 011a
अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः 011c
न भक्षयति यो मांसं न हन्यान्न च घातयेत् 012a
तं मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत् 012c
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु 013a
साधूनां सम्मतो नित्यं भवेन्मांसस्य वर्जनात् 013c
स्वमांसं परमांसेन यो वर्धयितुमिच्छति 014a
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति 014c
ददाति यजते चापि तपस्वी च भवत्यपि 015a
मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः 015c
मासि मास्यश्वमेधेन यो यजेत शतं समाः 016a
न खादति च यो मांसं सममेतन्मतं मम 016c
सदा यजति सत्रेण सदा दानं प्रयच्छति 017a
सदा तपस्वी भवति मधुमांसस्य वर्जनात् 017c
सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत 018a
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते 018c
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् 019a
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् 019c
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् 020a
दाता भवति लोके स प्राणानां नात्र संशयः 020c
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः 021a
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा 021c
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः 022a
मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् 022c
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् 023a
अरोगाणामपापानां पापैर्मांसोपजीविभिः 023c
तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् 024a
धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च 024c
अहिंसा परमो धर्मस्तथाहिंसा परं तपः 025a
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते 025c
न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते 026a
हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे 026c
स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः 027a
क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् 027c
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च 028a
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च 028c
अमांसभक्षणे राजन्भयमन्ते न गच्छति 028e
यदि चेत्खादको न स्यान्न तदा घातको भवेत् 029a
घातकः खादकार्थाय तं घातयति वै नरः 029c
अभक्ष्यमेतदिति वा इति हिंसा निवर्तते 030a
खादकार्थमतो हिंसा मृगादीनां प्रवर्तते 030c
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते 031a
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः 031c
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः 032a
उद्वेजनीया भूतानां यथा व्यालमृगास्तथा 032c
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च 033a
संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् 033c
स्वमांसं परमांसेन यो वर्धयितुमिच्छति 034a
उद्विग्नवासे वसति यत्रतत्राभिजायते 034c
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 035a
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः 035c
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया 036a
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे 036c
यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् 037a
हतानां वा मृतानां वा यथा हन्ता तथैव सः 037c
धनेन क्रायको हन्ति खादकश्चोपभोगतः 038a
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः 038c
अखादन्ननुमोदंश्च भावदोषेण मानवः 039a
योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते 039c
अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी 040a
भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह 040c
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः 041a
मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः 041c
अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् 042a
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः 042c
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया 043a
अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते 043c
खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः 044a
महादोषकरस्तत्र खादको न तु घातकः 044c
इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः 045a
हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः 045c
भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते 046a
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते 046c
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी 047a
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते 047c
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् 048a
पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् 048c
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते 049a
यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् 049c
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि 050a
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च 050c
अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् 050e
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ 051a
विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् 051c
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् 052a
स वर्जयेत मांसानि प्राणिनामिह सर्वशः 052c
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः 053a
येनायजन्त यज्वानः पुण्यलोकपरायणाः 053c
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा 054a
अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो 054c
आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः 055a
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् 055c
प्रजानां हितकामेन त्वगस्त्येन महात्मना 056a
आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः 056c
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः 057a
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः 057c
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ 058a
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप 058c
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् 059a
यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम 059c
कौमुदे तु विशेषेण शुक्लपक्षे नराधिप 060a
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते 060c
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् 061a
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् 061c
अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् 062a
अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः 062c
ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा 063a
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते 063c
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः 064a
सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः 064c
नाभागेनाम्बरीषेण गयेन च महात्मना 065a
आयुषा चानरण्येन दिलीपरघुपूरुभिः 065c
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना 066a
नृगेण विष्वगश्वेन तथैव शशबिन्दुना 066c
युवनाश्वेन च तथा शिबिनौशीनरेण च 066e
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च 067a
रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च 067c
दुःषन्तेन करूषेण रामालर्कनलैस्तथा 068a
विरूपाश्वेन निमिना जनकेन च धीमता 068c
सिलेन पृथुना चैव वीरसेनेन चैव ह 069a
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च 069c
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् 070a
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् 070c
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः 071a
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः 071c
तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् 072a
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते 072c
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः 073a
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः 073c
विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः 073e
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् 074a
मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः 074c
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः 075a
बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः 075c
एतत्ते कथितं राजन्मांसस्य परिवर्जने 076a
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् 076c