वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा शरतल्पे पितामहम् 001a
पुनरेव महातेजाः पप्रच्छ वदतां वरम् 001c
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते 002a
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् 002c
कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम 003a
वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते 003c
भीष्म उवाच 004
चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः 004a
एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन 004c
यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति 005a
तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः 005c
यथा नागपदेऽन्यानि पदानि पदगामिनाम् 006a
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे 006c
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा 006e
कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च 007a
पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा 008a
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः 008c
मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः 009a
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः 009c
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे 010a
पुत्रमांसोपमं जानन्खादते यो विचेतनः 010c
मातापितृसमायोगे पुत्रत्वं जायते यथा 011a
रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा 011c
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् 011e
असंस्कृताः संस्कृताश्च लवणालवणास्तथा 012a
प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते 012c
भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् 013a
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः 013c
अचिन्तितमनुद्दिष्टमसङ्कल्पितमेव च 014a
रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः 014c
प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता 014e
जीवितं हि परित्यज्य बहवः साधवो जनाः 015a
स्वमांसैः परमांसानि परिपाल्य दिवं गताः 015c
एवमेषा महाराज चतुर्भिः कारणैर्वृता 016a
अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता 016c