युधिष्ठिर उवाच 001
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः 001a
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति 001c
बृहस्पतिरुवाच 002
सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः 002a
शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ 002c
हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् 003a
अहिंसापाश्रयं धर्मं यः साधयति वै नरः 003c
त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा 004a
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते 004c
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः 005a
आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् 005c
आत्मोपमश्च भूतेषु यो वै भवति पूरुषः 006a
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते 006c
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 007a
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 007c
न तत्परस्य सन्दद्यात्प्रतिकूलं यदात्मनः 008a
एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते 008c
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये 009a
आत्मौपम्येन पुरुषः समाधिमधिगच्छति 009c
यथा परः प्रक्रमतेऽपरेषु तथापरः प्रक्रमते परस्मिन् 010a
एषैव तेऽस्तूपमा जीवलोके यथा धर्मो नैपुणेनोपदिष्टः 010c
वैशम्पायन उवाच 011
इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् 011a
दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा 011c