युधिष्ठिर उवाच 001
अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ 001a
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर 001c
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् 001e
बृहस्पतिरुवाच 002
कृत्वा पापानि कर्माणि अधर्मवशमागतः 002a
मनसा विपरीतेन निरयं प्रतिपद्यते 002c
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते 003a
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् 003c
यथा यथा नरः सम्यगधर्ममनुभाषते 004a
समाहितेन मनसा विमुच्यति तथा तथा 004c
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् 004e
अदत्त्वापि प्रदानानि विविधानि समाहितः 005a
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते 005c
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर 006a
नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते 006c
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् 007a
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता 007c
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते 008a
अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते 008c
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः 009a
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः 009c
न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् 010a
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना 010c
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश 011a
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् 011c
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ 012a
नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा 012c
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः 013a
स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते 013c
अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च 014a
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति 014c
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः 015a
तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव 015c
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् 016a
वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते 016c
अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम् 017a
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते 017c
औरसेन बलेनान्नमर्जयित्वाविहिंसकः 018a
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते 018c
न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः 019a
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते 019c
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः 020a
सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते 020c
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 021a
ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः 021c
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् 022a
कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः 022c
अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते 023a
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् 023c
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा 024a
अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः 024c
भोजयित्वा दशशतं नरो वेदविदां नृप 025a
न्यायविद्धर्मविदुषामितिहासविदां तथा 025c
न याति नरकं घोरं संसारांश्च न सेवते 026a
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् 026c
एवं सुखसमायुक्तो रमते विगतज्वरः 027a
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते 027c
एतत्ते सर्वमाख्यातमन्नदानफलं महत् 028a
मूलमेतद्धि धर्माणां प्रदानस्य च भारत 028c