युधिष्ठिर उवाच 001
पितामह महाबाहो सर्वशास्त्रविशारद 001a
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् 001c
केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि 002a
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप 002c
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः 003a
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति 003c
भीष्म उवाच 004
असावायाति भगवान्बृहस्पतिरुदारधीः 004a
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् 004c
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै 005a
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् 005c
वैशम्पायन उवाच 006
तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा 006a
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः 006c
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः 007a
पूजामनुपमां चक्रे सर्वे ते च सभासदः 007c
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् 008a
उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः 008c
युधिष्ठिर उवाच 009
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद 009a
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः 009c
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः 010a
गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति 010c
बृहस्पतिरुवाच 011
एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति 011a
एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् 011c
असहायः पिता माता तथा भ्राता सुतो गुरुः 012a
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च 012c
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः 013a
मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः 013c
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति 013e
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः 014a
प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् 014c
तथैवाधर्मसंयुक्तो नरकायोपपद्यते 014e
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः 015a
धर्म एको मनुष्याणां सहायः पारलौकिकः 015c
लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः 016a
नरः करोत्यकार्याणि परार्थे लोभमोहितः 016c
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् 017a
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् 017c
युधिष्ठिर उवाच 018
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् 018a
शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते 018c
मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् 019a
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति 019c
बृहस्पतिरुवाच 020
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 020a
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा 020c
प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् 021a
एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति 021c
त्वगस्थिमांसं शुक्रं च शोणितं च महामते 022a
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् 022c
ततो धर्मसमायुक्तः स जीवः सुखमेधते 023a
इह लोके परे चैव किं भूयः कथयामि ते 023c
युधिष्ठिर उवाच 024
अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति 024a
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते 024c
बृहस्पतिरुवाच 025
अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर 025a
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा 025c
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु 026a
मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् 026c
ततो गर्भः सम्भवति स्त्रीपुंसोः पार्थ सङ्गमे 027a
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 027c
युधिष्ठिर उवाच 028
आख्यातमेतद्भवता गर्भः सञ्जायते यथा 028a
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् 028c
बृहस्पतिरुवाच 029
आसन्नमात्रः सततं तैर्भूतैरभिभूयते 029a
विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् 029c
स तु भूतसमायुक्तः प्राप्नुते जीव एव ह 029e
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् 030a
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि 030c
युधिष्ठिर उवाच 031
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः 031a
जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते 031c
बृहस्पतिरुवाच 032
जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः 032a
स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत 032c
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् 033a
दुःखं संसारचक्रं च नरः क्लेशं च विन्दति 033c
इहलोके च स प्राणी जन्मप्रभृति पार्थिव 034a
स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः 034c
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते 035a
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् 035c
अथान्तरा तु धर्मस्य अधर्ममुपसेवते 036a
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति 036c
अधर्मेण समायुक्तो यमस्य विषयं गतः 037a
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते 037c
कर्मणा येन येनेह यस्यां योनौ प्रजायते 038a
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु 038c
यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि 039a
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते 039c
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः 040a
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते 040c
खरो जीवति वर्षाणि दश पञ्च च भारत 041a
खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति 041c
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः 042a
ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः 042c
पतितं याजयित्वा तु कृमियोनौ प्रजायते 043a
तत्र जीवति वर्षाणि दश पञ्च च भारत 043c
कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः 044a
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः 044c
श्वा वर्षमेकं भवति ततो जायति मानवः 044e
उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् 045a
स जीव इह संसारांस्त्रीनाप्नोति न संशयः 045c
प्राक्श्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः 046a
ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः 046c
मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् 047a
सोऽधमान्याति संसारानधर्मेणेह चेतसा 047c
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति 048a
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते 048c
कृमिभावमनुप्राप्तो वर्षमेकं स जीवति 049a
ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते 049c
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे 050a
आत्मनः कामकारेण सोऽपि हंसः प्रजायते 050c
पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते 051a
सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः 051c
खरो जीवति मासांस्तु दश श्वा च चतुर्दश 052a
बिडालः सप्त मासांस्तु ततो जायति मानवः 052c
मातापितरमाक्रुश्य सारिकः सम्प्रजायते 053a
ताडयित्वा तु तावेव जायते कच्छपो नृप 053c
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः 054a
व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः 054c
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते 055a
सोऽपि मोहसमापन्नो मृतो जायति वानरः 055c
वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः 056a
श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः 056c
न्यासापहर्ता तु नरो यमस्य विषयं गतः 057a
संसाराणां शतं गत्वा कृमियोनौ प्रजायते 057c
तत्र जीवति वर्षाणि दश पञ्च च भारत 058a
दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः 058c
असूयको नरश्चापि मृतो जायति शार्ङ्गकः 059a
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः 059c
भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत 060a
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते 060c
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः 061a
कीटः सञ्जायते जन्तुस्ततो जायति मानुषः 061c
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् 062a
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा 062c
सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः 063a
स जायते महाराज मूषको निरपत्रपः 063c
ततः प्रेत्य महाराज पुनर्जायति सूकरः 064a
सूकरो जातमात्रस्तु रोगेण म्रियते नृप 064c
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव 065a
श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः 065c
परदाराभिमर्शं तु कृत्वा जायति वै वृकः 066a
श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा 066c
भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः 067a
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप 067c
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च 068a
प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः 068c
सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः 069a
पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च 069c
एतानासाद्य संसारान्कृमियोनौ प्रजायते 069e
तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश 070a
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः 070c
उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो 071a
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः 071c
कृमिर्जीवति वर्षाणि दश पञ्च च भारत 072a
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 072c
पूर्वं दत्त्वा तु यः कन्यां द्वितीये सम्प्रयच्छति 073a
सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते 073c
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर 074a
अधर्मसङ्क्षये युक्तस्ततो जायति मानुषः 074c
देवकार्यमुपाकृत्य पितृकार्यमथापि च 075a
अनिर्वाप्य समश्नन्वै ततो जायति वायसः 075c
वायसो दश वर्षाणि ततो जायति कुक्कुटः 076a
जायते लवकश्चापि मासं तस्मात्तु मानुषः 076c
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते 077a
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते 077c
क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च 078a
ततो निधनमापन्नो मानुषत्वमुपाश्नुते 078c
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते 079a
तत्रापत्यं समुत्पाद्य ततो जायति मूषकः 079c
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः 080a
यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् 080c
पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् 081a
असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् 081c
एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः 082a
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत 082c
संसारचक्रमासाद्य कृमियोनौ प्रजायते 083a
कृमिर्भवति वर्षाणि दश पञ्च च भारत 083c
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः 083e
ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रजायते 084a
संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते 084c
मृतो दुःखमनुप्राप्य बहुवर्षगणानिह 085a
अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते 085c
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः 086a
अर्थार्थी यदि वा वैरी स मृतो जायते खरः 086c
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते 087a
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते 087c
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः 088a
हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते 088c
मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते 089a
श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च 089c
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः 090a
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 090c
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः 091a
बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् 091c
ततः पश्चान्महाराज कृमियोनौ प्रजायते 092a
कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः 092c
भोजनं चोरयित्वा तु मक्षिका जायते नरः 093a
मक्षिकासङ्घवशगो बहून्मासान्भवत्युत 093c
ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते 093e
वाद्यं हृत्वा तु पुरुषो मशकः सम्प्रजायते 094a
तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः 094c
स जायते बभ्रुसमो दारुणो मूषको नरः 094e
लवणं चोरयित्वा तु चीरीवाकः प्रजायते 095a
दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् 095c
चोरयित्वा पयश्चापि बलाका सम्प्रजायते 096a
यस्तु चोरयते तैलं तैलपायी प्रजायते 096c
चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते 096e
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः 097a
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते 097c
हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते 098a
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः 098c
कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः 099a
राजतं भाजनं हृत्वा कपोतः सम्प्रजायते 099c
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते 100a
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः 100c
चोरयित्वा नरः पट्टं त्वाविकं वापि भारत 101a
क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते 101c
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः 102a
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः 102c
वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः 103a
छुच्छुन्दरित्वमाप्नोति राजल्ँलोभपरायणः 103c
विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः 104a
स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते 104c
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः 105a
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते 105c
पापानि तु नरः कृत्वा तिर्यग्जायति भारत 106a
न चात्मनः प्रमाणं ते धर्मं जानन्ति किञ्चन 106c
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा 107a
सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत 107c
असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः 108a
नराः पापसमाचारा लोभमोहसमन्विताः 108c
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः 109a
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत 109c
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः 110a
एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः 110c
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः 111a
एतद्वै लेशमात्रेण कथितं ते मयानघ 111c
अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत 111e
एतन्मया महाराज ब्रह्मणो वदतः पुरा 112a
सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् 112c
मयापि तव कार्त्स्न्येन यथावदनुवर्णितम् 113a
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा 113c