युधिष्ठिर उवाच 001
यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह 001a
यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि 001c
भीष्म उवाच 002
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् 002a
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः 002c
अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे 003a
स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् 003c
तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् 004a
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः 004c
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः 005a
शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते 005c
तत्त्ववित्त्वनहम्बुद्धिस्तीर्थं परममुच्यते 006a
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् 006c
रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः 007a
शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः 007c
सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः 008a
शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते 008c
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते 009a
स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः 009c
अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः 010a
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा 010c
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः 011a
तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता 011c
वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् 012a
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् 012c
मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च 013a
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः 013c
समारोपितशौचस्तु नित्यं भावसमन्वितः 014a
केवलं गुणसम्पन्नः शुचिरेव नरः सदा 014c
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत 015a
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि 015c
यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः 016a
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च 016c
प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् 017a
धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् 017c
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा 018a
अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा 018c
मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे 019a
उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् 019c
यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता 020a
नेह साधयते कार्यं समायुक्तस्तु सिध्यति 020c
एवं शरीरशौचेन तीर्थशौचेन चान्वितः 021a
ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् 021c