युधिष्ठिर उवाच 001
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना 001a
गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः 001c
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह 002a
बहूपकरणा यज्ञा नानासम्भारविस्तराः 002c
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह 003a
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः 003c
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् 004a
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह 004c
भीष्म उवाच 005
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् 005a
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर 005c
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् 006a
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 006c
षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः 007a
तप्तकाञ्चनवर्णं च विमानं लभते नरः 007c
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते 008a
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसन्निभे 008c
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् 009a
धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् 009c
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् 010a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् 010c
यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् 010e
सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः 011a
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् 011c
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे 012a
द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह 012c
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् 013a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् 013c
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 014a
मयूरहंससंयुक्तं विमानं लभते नरः 014c
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह 015a
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः 015c
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् 016a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 016c
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 017a
इन्द्रकन्याभिरूढं च विमानं लभते नरः 017c
सागरस्य च पर्यन्ते वासवं लोकमावसेत् 018a
देवराजस्य च क्रीडां नित्यकालमवेक्षते 018c
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् 019a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् 019c
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः 020a
अनसूयुरपापस्थो द्वादशाहफलं लभेत् 020c
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् 021a
सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् 021c
आवर्तनानि चत्वारि तथा पद्मानि द्वादश 022a
शराग्निपरिमाणं च तत्रासौ वसते सुखम् 022c
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् 023a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 023c
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः 024a
गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 024c
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् 025a
शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् 025c
तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते 026a
नूपुराणां निनादेन मेखलानां च निस्वनैः 026c
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च 027a
पद्मान्यष्टादश तथा पताके द्वे तथैव च 027c
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च 028a
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते 028c
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् 029a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 029c
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् 030a
सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् 030c
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति 031a
तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते 031c
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः 032a
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते 032c
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः 033a
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् 033c
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 034a
पद्मवर्णनिभं चैव विमानमधिरोहति 034c
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः 035a
वयोरूपविलासिन्यो लभते नात्र संशयः 035c
यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि 036a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 036c
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 037a
पुण्डरीकप्रकाशं च विमानं लभते नरः 037c
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च 038a
नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् 038c
अष्टादशसहस्राणि वर्षाणां कल्पमेव च 039a
कोटीशतसहस्रं च तेषु लोकेषु मोदते 039c
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते 040a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 040c
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे 041a
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् 041c
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् 042a
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा 042c
विमानं मण्डलावर्तमावर्तगहनावृतम् 043a
सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् 043c
विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः 044a
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् 044c
आरोहति महद्यानं हंससारसवाहनम् 044e
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः 045a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 045c
परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा 046a
अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा 046c
अभिगच्छेन्महादेवं विमानस्थं महाबलम् 047a
स्वयम्भुवं च पश्येत विमानं समुपस्थितम् 047c
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् 048a
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् 048c
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् 049a
कोटीशतसहस्रं च दश कोटिशतानि च 049c
रुद्रं नित्यं प्रणमते देवदानवसम्मतम् 050a
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् 050c
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः 051a
सदा द्वादशमासान्वै सर्वमेधफलं लभेत् 051c
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते 052a
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् 052c
हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् 053a
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् 053c
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् 054a
नित्यमावसते राजन्नरनारीसमावृतम् 054c
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् 054e
त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः 055a
सदा द्वादश मासान्वै देवसत्रफलं लभेत् 055c
रक्तपद्मोदयं नाम विमानं साधयेन्नरः 056a
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् 056c
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् 057a
पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् 057c
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च 058a
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् 058c
गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः 059a
सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते 059c
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः 060a
सदा द्वादश मासान्वै महामेधफलं लभेत् 060c
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः 061a
मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् 061c
कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः 062a
काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते 062c
देवकन्यानिवासे च तस्मिन्वसति मानवः 063a
जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः 063c
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः 064a
सदा दादश मासांस्तु जुह्वानो जातवेदसम् 064c
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् 064e
यानमारोहते नित्यं हंसबर्हिणसेवितम् 065a
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् 065c
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम् 066a
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् 066c
वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः 066e
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति 067a
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् 067c
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः 067e
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः 068a
सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् 068c
सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा 069a
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् 069c
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च 070a
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते 070c
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् 071a
आवर्तनानि चत्वारि सागरे यात्यसौ नरः 071c
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः 072a
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 072c
स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति 073a
मारुतौशनसे चैव ब्रह्मलोकं च गच्छति 073c
तत्र दैवतकन्याभिरासनेनोपचर्यते 074a
भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते 074c
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् 075a
द्वात्रिंशद्रूपधारिण्यो मधुराः समलङ्कृताः 075c
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो 076a
तावच्चरत्यसौ वीरः सुधामृतरसाशनः 076c
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् 077a
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति 077c
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते 078a
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलङ्कृतैः 078c
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् 079a
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति 079c
तत्र कल्पसहस्रं स कान्ताभिः सह मोदते 080a
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् 080c
एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् 081a
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति 081c
उत्तमं लभते स्थानमप्सरोगणसेवितम् 082a
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् 082c
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः 083a
दिव्याम्बरधरः श्रीमानयुतानां शतं समाः 083c
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् 084a
सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः 084c
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः 085a
स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते 085c
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः 086a
विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते 086c
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् 087a
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 087c
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति 088a
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा 088c
अनभिज्ञश्च दुःखानां विमानवरमास्थितः 089a
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः 089c
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् 090a
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 090c
धृतिमानहिंसानिरतः सत्यवागनसूयकः 091a
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः 091c
कामचारी सुधाहारो विमानवरमास्थितः 092a
रमते देवकन्याभिर्दिव्याभरणभूषितः 092c
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् 093a
सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः 093c
वायोरुशनसश्चैव रुद्रलोकं च गच्छति 094a
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः 094c
अनेकगुणपर्यन्तं विमानवरमास्थितः 095a
रमते देवकन्याभिर्दिव्याभरणभूषितः 095c
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् 096a
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 096c
आदित्यानामधीवासे मोदमानो वसेच्चिरम् 097a
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 097c
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे 098a
रमते देवकन्यानां सहस्रैरयुतैस्तथा 098c
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् 099a
सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् 099c
सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः 100a
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते 100c
देवकन्यासमारूढै राजतैर्विमलैः शुभैः 101a
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् 101c
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते 102a
सुधारसं चोपजीवन्नमृतोपममुत्तमम् 102c
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् 103a
सदा द्वादश मासांस्तु नियतो नियताशनः 103c
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् 104a
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः 104c
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते 105a
विमाने स्फाटिके दिव्ये सर्वरत्नैरलङ्कृते 105c
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते 106a
द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा 106c
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् 107a
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् 107c
फलं प्राप्नोति विपुलं देवलोके च पूज्यते 108a
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते 108c
देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् 109a
अध्यावसति दिव्यात्मा विमानवरमास्थितः 109c
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः 110a
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् 110c
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् 111a
सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः 111c
फलं देवर्षिचरितं विपुलं समुपाश्नुते 112a
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः 112c
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः 113a
पीनस्तनोरुजघना दिव्याभरणभूषिताः 113c
रमयन्ति मनः कान्ता विमाने सूर्यसन्निभे 114a
सर्वकामगमे दिव्ये कल्पायुतशतं समाः 114c
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् 115a
सदा द्वादश मासान्वै सत्यव्रतपरायणः 115c
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः 116a
विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति 116c
जातरूपमयं युक्तं सर्वरत्नविभूषितम् 117a
अप्सरोगणसम्पूर्णं गन्धर्वैरभिनादितम् 117c
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः 118a
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः 118c
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः 119a
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः 119c
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा 120a
रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति 120c
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः 121a
सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् 121c
सुधारसकृताहारः श्रीमान्सर्वमनोहरः 122a
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव 122c
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 123a
सुखेष्वभिरतो योगी दुःखानामविजानकः 123c
स्वयम्प्रभाभिर्नारीभिर्विमानस्थो महीयते 124a
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते 124c
नानाविधसुरूपाभिर्नानारागाभिरेव च 125a
नानामधुरभाषाभिर्नानारतिभिरेव च 125c
विमाने नगराकारे सूर्यवत्सूर्यसन्निभे 126a
पृष्ठतः सोमसङ्काशे उदक्चैवाभ्रसन्निभे 126c
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले 127a
ऊर्ध्वं चित्राभिसङ्काशे नैको वसति पूजितः 127c
यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति 128a
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः 128c
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् 129a
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः 129c
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् 130a
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् 130c
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा 131a
जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता 131c
बहुभिर्नियमैरेवं मासानश्नाति यो नरः 132a
अभ्रावकाशशीलश्च तस्य वासो निरुच्यते 132c
दिवं गत्वा शरीरेण स्वेन राजन्यथामरः 133a
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि 133c
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः 134a
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः 134c
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा 135a
उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् 135c
देवद्विजातिपूजायां रतो भरतसत्तम 135e
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः 136a
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु 136c
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत 137a
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः 137c