युधिष्ठिर उवाच 001
सर्वेषामेव वर्णानां म्लेच्छानां च पितामह 001a
उपवासे मतिरियं कारणं च न विद्महे 001c
ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् 002a
उपवासे कथं तेषां कृत्यमस्ति पितामह 002c
नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव 003a
अवाप्नोति गतिं कां च उपवासपरायणः 003c
उपवासः परं पुण्यमुपवासः परायणम् 004a
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते 004c
अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् 005a
स्वर्गं पुण्यं च लभते कथं भरतसत्तम 005c
उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप 006a
धर्मेण च सुखानर्थाल्ँलभेद्येन ब्रवीहि तम् 006c
वैशम्पायन उवाच 007
एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् 007a
धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् 007c
इदं खलु महाराज श्रुतमासीत्पुरातनम् 008a
उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ 008c
प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत 009a
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् 009c
प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः 010a
उपवासविधिं पुण्यमाचष्ट भरतर्षभ 010c
अङ्गिरा उवाच 011
ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन 011a
द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ 011c
वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते 012a
त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते 012c
चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते 013a
त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः 013c
पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत 014a
क्षमावान्रूपसम्पन्नः श्रुतवांश्चैव जायते 014c
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन 015a
यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् 015c
अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम् 016a
उपोष्य व्याधिरहितो वीर्यवानभिजायते 016c
मार्गशीर्षं तु यो मासमेकभक्तेन सङ्क्षिपेत् 017a
भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः 017c
सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः 018a
कृषिभागी बहुधनो बहुपुत्रश्च जायते 018c
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् 019a
सुभगो दर्शनीयश्च यशोभागी च जायते 019c
पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् 020a
श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते 020c
भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् 021a
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः 021c
चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् 022a
सुवर्णमणिमुक्ताढ्ये कुले महति जायते 022c
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः 023a
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् 023c
ज्येष्ठामूलं तु यो मासमेकभक्तेन सङ्क्षपेत् 024a
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते 024c
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः 025a
बहुधान्यो बहुधनो बहुपुत्रश्च जायते 025c
श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् 026a
यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः 026c
प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः 027a
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते 027c
तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् 028a
प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते 028c
कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् 029a
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते 029c
इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः 030a
तिथीनां नियमा ये तु शृणु तानपि पार्थिव 030c
पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत 031a
गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते 031c
मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश 032a
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् 032c
एते तु नियमाः सर्वे कर्तव्याः शरदो दश 033a
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता 033c
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् 034a
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 034c
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः 035a
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 035c
अधिवासे सोऽप्सरसां नृत्यगीतविनादिते 036a
तप्तकाञ्चनवर्णाभं विमानमधिरोहति 036c
पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते 037a
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते 037c
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः 038a
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते 038c
दशवर्षसहस्राणि स्वर्गे च स महीयते 039a
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते 039c
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते 040a
अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः 040c
वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते 041a
त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते 041c
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् 042a
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 042c
चक्रवाकप्रयुक्तेन विमानेन स गच्छति 043a
चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते 043c
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप 044a
गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः 044c
हंससारसयुक्तेन विमानेन स गच्छति 045a
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते 045c
पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु 046a
षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् 046c
षष्टिं वर्षसहस्राणि दिवमावसते च सः 046e
वीणानां वल्लकीनां च वेणूनां च विशां पते 047a
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते 047c
संवत्सरमिहैकं तु मासि मासि पिबेत्पयः 048a
फलं विश्वजितस्तात प्राप्नोति स नरो नृप 048c
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति 049a
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते 049c
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते 050a
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः 050c
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः 051a
पदे पदे यज्ञफलं स प्राप्नोति न संशयः 051c
दिवं हंसप्रयुक्तेन विमानेन स गच्छति 052a
शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् 052c
आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः 053a
शतं वर्षसहस्राणां मोदते दिवि स प्रभो 053c
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते 053e
सहस्रहंससंयुक्ते विमाने सोमवर्चसि 054a
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ 054c
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् 055a
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् 055c
दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् 056a
न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः 056c
अतः स कामसंयुक्तो विमाने हेमसन्निभे 057a
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुभे 057c
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः 058a
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः 058c
बालसूर्यप्रतीकाशे विमाने हेमवर्चसि 059a
वैडूर्यमुक्ताखचिते वीणामुरजनादिते 059c
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते 060a
स्त्रीसहस्रानुचरिते स नरः सुखमेधते 060c
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव 061a
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते 061c
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः 062a
न धर्मात्परमो लाभस्तपो नानशनात्परम् 062c
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च 063a
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते 063c
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे 064a
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् 064c
दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता 065a
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः 065c
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः 066a
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः 066c
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् 067a
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते 067c
इमं तु कौन्तेय यथाक्रमं विधिं प्रवर्तितं ह्यङ्गिरसा महर्षिणा 068a
पठेत यो वै शृणुयाच्च नित्यदा न विद्यते तस्य नरस्य किल्बिषम् 068c
विमुच्यते चापि स सर्वसङ्करैर्न चास्य दोषैरभिभूयते मनः 069a
वियोनिजानां च विजानते रुतं ध्रुवां च कीर्तिं लभते नरोत्तमः 069c