युधिष्ठिर उवाच 001
यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ 001a
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे 001c
भीष्म उवाच 002
ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् 002a
गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत 002c
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् 003a
गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत 003c
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः 004a
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः 004c
प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः 005a
श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः 005c
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः 006a
हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते 006c
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः 007a
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः 007c
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् 008a
विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् 008c
सर्वानर्थः कुले यत्र जायते पापपूरुषः 009a
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च 009c
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः 010a
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् 010c
अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः 011a
स्वयमीहितलब्धं तु नाकामो दातुमर्हति 011c
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह 012a
न पुत्रभागं विषमं पिता दद्यात्कथञ्चन 012c
न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा 013a
यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् 013c
धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः 013e
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश 014a
दश चैव पितॄन्माता सर्वां वा पृथिवीमपि 014c
गौरवेणाभिभवति नास्ति मातृसमो गुरुः 015a
माता गरीयसी यच्च तेनैतां मन्यते जनः 015c
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत 016a
स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् 016c
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः 017a
तमेव चोपजीवेरन्यथैव पितरं तथा 017c
शरीरमेतौ सृजतः पिता माता च भारत 018a
आचार्यशास्ता या जातिः सा सत्या साजरामरा 018c
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ 019a
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् 019c